१३. अनुशासनपर्व
१३.५८.१युधिष्ठिर उवाच

१३.५८.२यानीमानि बहिर्वेद्यां दानानि परिचक्षते
तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुंगव

१३.५८.३कौतूहलं हि परमं तत्र मे वर्तते प्रभो
दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे

१३.५८.४भीष्म उवाच

१३.५८.५अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहम्
यच्चाभिलषितं दद्यात्तृषितायाभियाचते

१३.५८.६दत्तं मन्येत यद्दत्त्वा तद्दानं श्रेष्ठमुच्यते
दत्तं दातारमन्वेति यद्दानं भरतर्षभ

१३.५८.७हिरण्यदानं गोदानं पृथिवीदानमेव च
एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम्

१३.५८.८एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा
दानानि हि नरं पापान्मोक्षयन्ति न संशयः

१३.५८.९यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता

१३.५८.१०प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा
प्रियो भवति भूतानामिह चैव परत्र च

१३.५८.११याचमानमभीमानादाशावन्तमकिंचनम्
यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर

१३.५८.१२अमित्रमपि चेद्दीनं शरणैषिणमागतम्
व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः

१३.५८.१३कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते
अपहन्यात्क्षुधं यस्तु न तेन पुरुषः समः

१३.५८.१४ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान्
अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रय

१३.५८.१५आशिषं ये न देवेषु न मर्त्येषु च कुर्वते
अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः

१३.५८.१६आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत
तान्युक्तैरुपजिज्ञास्य तथा द्विजवरोत्तमान्

१३.५८.१७कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः
निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः

१३.५८.१८यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर
कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः

१३.५८.१९विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः
गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः

१३.५८.२०तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च
यत्करिष्यसि कल्याणं तत्त्वा लोकेषु धास्यति

१३.५८.२१यथाग्निहोत्रं सुहुतं सायं प्रातर्द्विजातिना
तथा भवति दत्तं वै द्विजेभ्योऽथ कृतात्मना

१३.५८.२२एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः
विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम्

१३.५८.२३निवापो दानसदृशस्तादृशेषु युधिष्ठिर
निवपन्पूजयंश्चैव तेष्वानृण्यं निगच्छति

१३.५८.२४य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्वपि
त एव नः पूज्यतमा ये चान्ये प्रियवादिनः

१३.५८.२५ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे
पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाभयम्

१३.५८.२६ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते
क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे

१३.५८.२७अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर
ब्राह्मणान्मा स्म पर्यश्नीर्वासोभिरशनेन च

१३.५८.२८यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ
तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता

१३.५८.२९नमस्कार्यास्त्वया विप्रा वर्तमाना यथातथम्
यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत्

१३.५८.३०को ह्यन्यः सुप्रसादानां सुहृदामल्पतोषिणाम्
वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम

१३.५८.३१यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः
स देवः सा गतिर्नान्या तथास्माकं द्विजातयः

१३.५८.३२यदि नो ब्राह्मणास्तात संत्यजेयुरपूजिताः
पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम्

१३.५८.३३अवेदानामकीर्तीनामलोकानामयज्वनाम्
कोऽस्माकं जीवितेनार्थस्तद्धि नो ब्राह्मणाश्रयम्

१३.५८.३४अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः
राजन्यो ब्राह्मणं राजन्पुरा परिचचार ह
वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः

१३.५८.३५दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन्
संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च

१३.५८.३६मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान्
आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान्

१३.५८.३७अपरेषां परेषां च परेभ्यश्चैव ये परे
क्षत्रियाणां प्रतपतां तेजसा च बलेन च
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च

१३.५८.३८न मे पिता प्रियतरो न त्वं तात तथा प्रियः
न मे पितुः पिता राजन्न चात्मा न च जीवितम्

१३.५८.३९त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन
त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ

१३.५८.४०ब्रवीमि सत्यमेतच्च यथाहं पाण्डुनन्दन
तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः

१३.५८.४१पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान्
तत्र मे तात गन्तव्यमह्नाय च चिराय च

१३.५८.४२सोऽहमेतादृशाँल्लोकान्दृष्ट्वा भरतसत्तम
यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव