१३.५९.१युधिष्ठिर उवाच
१३.५९.२यौ तु स्यातां चरणेनोपपन्नौ; यौ विद्यया सदृशौ जन्मना च
ताभ्यां दानं कतरस्मै विशिष्ट;मयाचमानाय च याचते च
१३.५९.३भीष्म उवाच
१३.५९.४श्रेयो वै याचतः पार्थ दत्तमाहुरयाचते
अर्हत्तमो वै धृतिमान्कृपणादधृतात्मनः
१३.५९.५क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः
ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान्
१३.५९.६याच्ञामाहुरनीशस्य अभिहारं च भारत
उद्वेजयति याचन्हि सदा भूतानि दस्युवत्
१३.५९.७म्रियते याचमानो वै तमनु म्रियते ददत्
ददत्संजीवयत्येनमात्मानं च युधिष्ठिर
१३.५९.८आनृशंस्यं परो धर्मो याचते यत्प्रदीयते
अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रय
१३.५९.९यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः
भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः
१३.५९.१०तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि
पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः
१३.५९.११तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परंतप
ददद्बहुविधान्दायानुपच्छन्दानयाचताम्
१३.५९.१२यदग्निहोत्रे सुहुते सायंप्रातर्भवेत्फलम्
विद्यावेदव्रतवति तद्दानफलमुच्यते
१३.५९.१३विद्यावेदव्रतस्नातानव्यपाश्रयजीविनः
गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान्
१३.५९.१४कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः
निमन्त्रयेथाः कौन्तेय कामैश्चान्यैर्द्विजोत्तमान्
१३.५९.१५अपि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर
कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः
१३.५९.१६अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान्
येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः
१३.५९.१७अन्नानि प्रातःसवने नियता ब्रह्मचारिणः
ब्राह्मणास्तात भुञ्जानास्त्रेताग्नीन्प्रीणयन्तु ते
१३.५९.१८माध्यंदिनं ते सवनं ददतस्तात वर्तताम्
गा हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव
१३.५९.१९तृतीयं सवनं तत्ते वैश्वदेवं युधिष्ठिर
यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि
१३.५९.२०अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः
दमस्त्यागो धृतिः सत्यं भवत्ववभृथाय ते
१३.५९.२१एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः
विशिष्टः सर्वयज्ञेभ्यो नित्यं तात प्रवर्तताम्