१३. अनुशासनपर्व
१३.६.१युधिष्ठिर उवाच

१३.६.२पितामह महाप्राज्ञ सर्वशास्त्रविशारद
दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत्

१३.६.३भीष्म उवाच

१३.६.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर

१३.६.५दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युत
पुरा वसिष्ठो भगवान्पितामहमपृच्छत

१३.६.६ततः पद्मोद्भवो राजन्देवदेवः पितामहः
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम्

१३.६.७नाबीजं जायते किंचिन्न बीजेन विना फलम्
बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम्

१३.६.८यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः
सुकृते दुष्कृते वापि तादृशं लभते फलम्

१३.६.९यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्
तथा पुरुषकारेण विना दैवं न सिध्यति

१३.६.१०क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्
क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते

१३.६.११कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च

१३.६.१२शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा
कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित्

१३.६.१३कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम्

१३.६.१४तपसा रूपसौभाग्यं रत्नानि विविधानि च
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना

१३.६.१५तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता
सर्वं पुरुषकारेण कृतेनेहोपपद्यते

१३.६.१६ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः
सर्वे पुरुषकारेण मानुष्याद्देवतां गताः

१३.६.१७अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम्
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः

१३.६.१८शौचेन लभते विप्रः क्षत्रियो विक्रमेण च
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम्

१३.६.१९नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम्
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम्

१३.६.२०येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः
स एष भगवान्विष्णुः समुद्रे तप्यते तपः

१३.६.२१स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत्
लोको दैवं समालम्ब्य उदासीनो भवेन्न तु

१३.६.२२अकृत्वा मानुषं कर्म यो दैवमनुवर्तते
वृथा श्राम्यति संप्राप्य पतिं क्लीबमिवाङ्गना

१३.६.२३न तथा मानुषे लोके भयमस्ति शुभाशुभे
यथा त्रिदशलोके हि भयमल्पेन जायते

१३.६.२४कृतः पुरुषकारस्तु दैवमेवानुवर्तते
न दैवमकृते किंचित्कस्यचिद्दातुमर्हति

१३.६.२५यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि
कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति

१३.६.२६न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित्
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया

१३.६.२७ऋषीणां देवतानां च सदा भवति विग्रहः
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते

१३.६.२८कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते
एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः

१३.६.२९आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः
आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च

१३.६.३०कृतं च विकृतं किंचित्कृते कर्मणि सिध्यति
सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते

१३.६.३१देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते
पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति

१३.६.३२पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः

१३.६.३३पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा
ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः

१३.६.३४अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः
महर्षिशापात्सौदासः पुरुषादत्वमागतः

१३.६.३५अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ
न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा

१३.६.३६वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः
मिथ्याभिधानेनैकेन रसातलतलं गतः

१३.६.३७बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः
विष्णोः पुरुषकारेण पातालशयनः कृतः

१३.६.३८शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः
द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः

१३.६.३९अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च
वैशंपायनविप्रर्षिः किं दैवेन निवारितः

१३.६.४०गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे
पुरा नृगश्च राजर्षिः कृकलासत्वमागतः

१३.६.४१धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः
प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे

१३.६.४२पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः
पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात्

१३.६.४३तपोनियमसंयुक्ता मुनयः संशितव्रताः
किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा

१३.६.४४पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम्
लोभमोहसमापन्नं न दैवं त्रायते नरम्

१३.६.४५यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान्
तथा कर्मसमायुक्तं दैवं साधु विवर्धते

१३.६.४६यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति
तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति

१३.६.४७विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा; पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम्
सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं; व्ययगुणमपि साधुं कर्मणा संश्रयन्ते

१३.६.४८भवति मनुजलोकाद्देवलोको विशिष्टो; बहुतरसुसमृद्ध्या मानुषाणां गृहाणि
पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलोकेन दैवम्

१३.६.४९व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं; गुरुमिव कृतमग्र्यं कर्म संयाति दैवम्
अनुपहतमदीनं कामकारेण दैवं; नयति पुरुषकारः संचितस्तत्र तत्र

१३.६.५०एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम
फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः

१३.६.५१अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात्