१३.५.१युधिष्ठिर उवाच
१३.५.२आनृशंसस्य धर्मस्य गुणान्भक्तजनस्य च
श्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह
१३.५.३भीष्म उवाच
१३.५.४विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः
सविषं काण्डमादाय मृगयामास वै मृगम्
१३.५.५तत्र चामिषलुब्धेन लुब्धकेन महावने
अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः
१३.५.६तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा
महान्वनतरुर्विद्धो मृगं तत्र जिघांसता
१३.५.७स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः
उत्सृज्य फलपत्राणि पादपः शोषमागतः
१३.५.८तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः
न जहाति शुको वासं तस्य भक्त्या वनस्पतेः
१३.५.९निष्प्रचारो निराहारो ग्लानः शिथिलवागपि
कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत
१३.५.१०तमुदारं महासत्त्वमतिमानुषचेष्टितम्
समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः
१३.५.११ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः
तिर्यग्योनावसंभाव्यमानृशंस्यं समास्थितः
१३.५.१२अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु
प्राणिनामिह सर्वेषां सर्वं सर्वत्र दृश्यते
१३.५.१३ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः
अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह
१३.५.१४शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया
पृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम्
१३.५.१५अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम्
स्वागतं देवराजाय विज्ञातस्तपसा मया
१३.५.१६ततो दशशताक्षेण साधु साध्विति भाषितम्
अहो विज्ञानमित्येवं तपसा पूजितस्ततः
१३.५.१७तमेवं शुभकर्माणं शुकं परमधार्मिकम्
विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः
१३.५.१८निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम्
किमर्थं सेवसे वृक्षं यदा महदिदं वनम्
१३.५.१९अन्येऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः
शुभाः पर्याप्तसंचारा विद्यन्तेऽस्मिन्महावने
१३.५.२०गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम्
विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम्
१३.५.२१तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम्
सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह
१३.५.२२अनतिक्रमणीयानि दैवतानि शचीपते
यत्राभवस्तत्र भवस्तन्निबोध सुराधिप
१३.५.२३अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः
बालभावे च संगुप्तः शत्रुभिश्च न धर्षितः
१३.५.२४किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ
आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च
१३.५.२५अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम्
अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति
१३.५.२६त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान्
अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः
१३.५.२७नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः
समर्थमुपजीव्येमं त्यजेयं कथमद्य वै
१३.५.२८तस्य वाक्येन सौम्येन हर्षितः पाकशासनः
शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः
१३.५.२९वरं वृणीष्वेति तदा स च वव्रे वरं शुकः
आनृशंस्यपरो नित्यं तस्य वृक्षस्य संभवम्
१३.५.३०विदित्वा च दृढां शक्रस्तां शुके शीलसंपदम्
प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान्
१३.५.३१ततः फलानि पत्राणि शाखाश्चापि मनोरमाः
शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः
१३.५.३२शुकश्च कर्मणा तेन आनृशंस्यकृतेन ह
आयुषोऽन्ते महाराज प्राप शक्रसलोकताम्
१३.५.३३एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः
सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः