१३. अनुशासनपर्व
१३.६१.१युधिष्ठिर उवाच

१३.६१.२इदं देयमिदं देयमितीयं श्रुतिचोदना
बहुदेयाश्च राजानः किं स्विद्देयमनुत्तमम्

१३.६१.३भीष्म उवाच

१३.६१.४अति दानानि सर्वाणि पृथिवीदानमुच्यते
अचला ह्यक्षया भूमिर्दोग्ध्री कामाननुत्तमान्

१३.६१.५दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा
भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः

१३.६१.६यावद्भूमेरायुरिह तावद्भूमिद एधते
न भूमिदानादस्तीह परं किंचिद्युधिष्ठिर

१३.६१.७अप्यल्पं प्रददुः पूर्वे पृथिव्या इति नः श्रुतम्
भूमिमेते ददुः सर्वे ये भूमिं भुञ्जते जनाः

१३.६१.८स्वकर्मैवोपजीवन्ति नरा इह परत्र च
भूमिर्भूतिर्महादेवी दातारं कुरुते प्रियम्

१३.६१.९य एतां दक्षिणां दद्यादक्षयां पृथिवीपतिः
पुनर्नरत्वं संप्राप्य भवेत्स पृथिवीपतिः

१३.६१.१०यथा दानं तथा भोग इति धर्मेषु निश्चयः
संग्रामे वा तनुं जह्याद्दद्याद्वा पृथिवीमिमाम्

१३.६१.११इत्येतां क्षत्रबन्धूनां वदन्ति परमाशिषम्
पुनाति दत्ता पृथिवी दातारमिति शुश्रुम

१३.६१.१२अपि पापसमाचारं ब्रह्मघ्नमपि वानृतम्
सैव पापं पावयति सैव पापात्प्रमोचयेत्

१३.६१.१३अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः
पृथिवीं नान्यदिच्छन्ति पावनं जननी यथा

१३.६१.१४नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम्
दानं वाप्यथ वा ज्ञानं नाम्नोऽस्याः परमं प्रियम्
तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः

१३.६१.१५नाभूमिपतिना भूमिरधिष्ठेया कथंचन
न वा पात्रेण वा गूहेदन्तर्धानेन वा चरेत्
ये चान्ये भूमिमिच्छेयुः कुर्युरेवमसंशयम्

१३.६१.१६यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः
भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिमेव हि
प्रेत्येह च स धर्मात्मा संप्राप्नोति महद्यशः

१३.६१.१७यस्य विप्रानुशासन्ति साधोर्भूमिं सदैव हि
न तस्य शत्रवो राजन्प्रशासन्ति वसुंधराम्

१३.६१.१८यत्किंचित्पुरुषः पापं कुरुते वृत्तिकर्शितः
अपि गोचर्ममात्रेण भूमिदानेन पूयते

१३.६१.१९येऽपि संकीर्णकर्माणो राजानो रौद्रकर्मिणः
तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम्

१३.६१.२०अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः
यो यजेदश्वमेधेन दद्याद्वा साधवे महीम्

१३.६१.२१अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः
अशक्यमेकमेवैतद्भूमिदानमनुत्तमम्

१३.६१.२२सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च
सर्वमेतन्महाप्राज्ञ ददाति वसुधां ददत्

१३.६१.२३तपो यज्ञः श्रुतं शीलमलोभः सत्यसंधता
गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम्

१३.६१.२४भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः
ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम्

१३.६१.२५यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा
अनुगृह्णाति दातारं तथा सर्वरसैर्मही

१३.६१.२६मृत्योर्वै किंकरो दण्डस्तापो वह्नेः सुदारुणः
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम्

१३.६१.२७पितॄंश्च पितृलोकस्थान्देवलोके च देवताः
संतर्पयति शान्तात्मा यो ददाति वसुंधराम्

१३.६१.२८कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते
भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः

१३.६१.२९यथा धावति गौर्वत्सं क्षीरमभ्युत्सृजन्त्युत
एवमेव महाभाग भूमिर्भवति भूमिदम्

१३.६१.३०हलकृष्टां महीं दत्त्वा सबीजां सफलामपि
उदीर्णं वापि शरणं तथा भवति कामदः

१३.६१.३१ब्राह्मणं वृत्तसंपन्नमाहिताग्निं शुचिव्रतम्
नरः प्रतिग्राह्य महीं न याति यमसादनम्

१३.६१.३२यथा चन्द्रमसो वृद्धिरहन्यहनि जायते
तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते

१३.६१.३३अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः
याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै

१३.६१.३४मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ
अस्मिँल्लोके परे चैव ततश्चाजनने पुनः

१३.६१.३५य इमां व्याहृतिं वेद ब्राह्मणो ब्रह्मसंश्रितः
श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति

१३.६१.३६कृत्यानामभिशस्तानां दुरिष्टशमनं महत्
प्रायश्चित्तमहं कृत्वा पुनात्युभयतो दश

१३.६१.३७पुनाति य इदं वेद वेद चाहं तथैव च
प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता

१३.६१.३८अभिषिच्यैव नृपतिं श्रावयेदिममागमम्
यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च ताम्

१३.६१.३९सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयम्
राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम्

१३.६१.४०अथ येषामधर्मज्ञो राजा भवति नास्तिकः
न ते सुखं प्रबुध्यन्ते न सुखं प्रस्वपन्ति च

१३.६१.४१सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः
योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत्

१३.६१.४२अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः
सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च

१३.६१.४३तस्य राज्ञः शुभैरार्यैः कर्मभिर्निर्वृताः प्रजाः
योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः

१३.६१.४४स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत्
स दाता स च विक्रान्तो यो ददाति वसुंधराम्

१३.६१.४५आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः
ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे

१३.६१.४६यथा बीजानि रोहन्ति प्रकीर्णानि महीतले
तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः

१३.६१.४७आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः
शूलपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम्

१३.६१.४८भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च
चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः

१३.६१.४९एषा माता पिता चैव जगतः पृथिवीपते
नानया सदृशं भूतं किंचिदस्ति जनाधिप

१३.६१.५०अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर

१३.६१.५१इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता
मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम्

१३.६१.५२भगवन्केन दानेन स्वर्गतः सुखमेधते
यदक्षयं महार्घं च तद्ब्रूहि वदतां वर

१३.६१.५३इत्युक्तः स सुरेन्द्रेण ततो देवपुरोहितः
बृहस्पतिर्महातेजाः प्रत्युवाच शतक्रतुम्

१३.६१.५४सुवर्णदानं गोदानं भूमिदानं च वृत्रहन्
दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते

१३.६१.५५न भूमिदानाद्देवेन्द्र परं किंचिदिति प्रभो
विशिष्टमिति मन्यामि यथा प्राहुर्मनीषिणः

१३.६१.५६ये शूरा निहता युद्धे स्वर्याता दानगृद्धिनः
सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम्

१३.६१.५७भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः
ब्रह्मलोकगताः शूरा नातिक्रामन्ति भूमिदम्

१३.६१.५८पञ्च पूर्वादिपुरुषाः षट्च ये वसुधां गताः
एकादश ददद्भूमिं परित्रातीह मानवः

१३.६१.५९रत्नोपकीर्णां वसुधां यो ददाति पुरंदर
स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते

१३.६१.६०महीं स्फीतां ददद्राजा सर्वकामगुणान्विताम्
राजाधिराजो भवति तद्धि दानमनुत्तमम्

१३.६१.६१सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति
सर्वभूतानि मन्यन्ते मां ददातीति वासव

१३.६१.६२सर्वकामदुघां धेनुं सर्वकामपुरोगमाम्
ददाति यः सहस्राक्ष स स्वर्गं याति मानवः

१३.६१.६३मधुसर्पिःप्रवाहिन्यः पयोदधिवहास्तथा
सरितस्तर्पयन्तीह सुरेन्द्र वसुधाप्रदम्

१३.६१.६४भूमिप्रदानान्नृपतिर्मुच्यते राजकिल्बिषात्
न हि भूमिप्रदानेन दानमन्यद्विशिष्यते

१३.६१.६५ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम्
तं जनाः कथयन्तीह यावद्धरति गौरियम्

१३.६१.६६पुण्यामृद्धरसां भूमिं यो ददाति पुरंदर
न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः

१३.६१.६७सर्वथा पार्थिवेनेह सततं भूतिमिच्छता
भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सता

१३.६१.६८अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये
समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः

१३.६१.६९सागरान्सरितः शैलान्काननानि च सर्वशः
सर्वमेतन्नरः शक्र ददाति वसुधां ददत्

१३.६१.७०तडागान्युदपानानि स्रोतांसि च सरांसि च
स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत्

१३.६१.७१ओषधीः क्षीरसंपन्ना नगान्पुष्पफलान्वितान्
काननोपलशैलांश्च ददाति वसुधां ददत्

१३.६१.७२अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः
न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते

१३.६१.७३दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन्
पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति

१३.६१.७४न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः
स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात्

१३.६१.७५आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम्
ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम्

१३.६१.७६ब्राह्मणेष्वृणभूतं स्यात्पार्थिवस्य पुरंदर
इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान्

१३.६१.७७नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप
ब्राह्मणाय सुरश्रेष्ठ कृशभृत्याय कश्चन

१३.६१.७८अथाश्रु पतितं तेषां दीनानामवसीदताम्
ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम्

१३.६१.७९भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः
तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते

१३.६१.८०इक्षुभिः संततां भूमिं यवगोधूमसंकुलाम्
गोश्ववाहनसंपूर्णां बाहुवीर्यसमार्जिताम्

१३.६१.८१निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम्
अक्षयाँल्लभते लोकान्भूमिसत्रं हि तस्य तत्

१३.६१.८२विधूय कलुषं सर्वं विरजाः संमतः सताम्
लोके महीयते सद्भिर्यो ददाति वसुंधराम्

१३.६१.८३यथाप्सु पतितः शक्र तैलबिन्दुर्विसर्पति
तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति

१३.६१.८४ये रणाग्रे महीपालाः शूराः समितिशोभनाः
वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते

१३.६१.८५नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः
उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि

१३.६१.८६मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः
यो ददाति महीं सम्यग्विधिनेह द्विजातये

१३.६१.८७शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः
उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम्

१३.६१.८८शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः
भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा

१३.६१.८९आज्ञा सदाप्रतिहता जयशब्दो भवत्यथ
भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरंदर

१३.६१.९०हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाड्वलाः
अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत्

१३.६१.९१नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः
नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः

१३.६१.९२एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम्
वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा

१३.६१.९३य इमं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम्
न तस्य रक्षसां भागो नासुराणां भवत्युत

१३.६१.९४अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः
तस्माच्छ्राद्धेष्विदं विप्रो भुञ्जतः श्रावयेद्द्विजान्

१३.६१.९५इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ
मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि