१३.६०.१युधिष्ठिर उवाच
१३.६०.२दानं यज्ञक्रिया चेह किं स्वित्प्रेत्य महाफलम्
कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा
१३.६०.३एतदिच्छामि विज्ञातुं याथातथ्येन भारत
विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे
१३.६०.४अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः
किं स्विन्निःश्रेयसं तात तन्मे ब्रूहि पितामह
१३.६०.५भीष्म उवाच
१३.६०.६रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते
तस्य वैतानिकं कर्म दानं चैवेह पावनम्
१३.६०.७न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः
एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः
१३.६०.८अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः
श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम्
१३.६०.९ब्राह्मणांस्तर्पयेद्द्रव्यैस्ततो यज्ञे यतव्रतः
मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान्
१३.६०.१०यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति
यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः
१३.६०.११इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा
पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा
१३.६०.१२प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः
प्रजावांस्तेन भवति यथा जनयिता तथा
१३.६०.१३यावतो वै साधुधर्मान्सन्तः संवर्तयन्त्युत
सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः
१३.६०.१४समृद्धः संप्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर
धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ
१३.६०.१५आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत
अश्ववन्ति च यानानि वेश्मानि शयनानि च
१३.६०.१६एते देया व्युष्टिमन्तो लघूपायाश्च भारत
अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान्
१३.६०.१७उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय
राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति
१३.६०.१८एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि
स्रंसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि
१३.६०.१९ततश्च ब्रह्मभूयस्त्वमवाप्स्यसि धनानि च
आत्मनश्च परेषां च वृत्तिं संरक्ष भारत
१३.६०.२०पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय
योगक्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत
१३.६०.२१अरक्षितारं हर्तारं विलोप्तारमदायकम्
तं स्म राजकलिं हन्युः प्रजाः संभूय निर्घृणम्
१३.६०.२२अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः
१३.६०.२३पापं कुर्वन्ति यत्किंचित्प्रजा राज्ञा ह्यरक्षिताः
चतुर्थं तस्य पापस्य राजा भारत विन्दति
१३.६०.२४अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः
चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम्
१३.६०.२५शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः
चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत
१३.६०.२६जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः
१३.६०.२७कुबेरमिव रक्षांसि शतक्रतुमिवामराः
ज्ञातयस्त्वानुजीवन्तु सुहृदश्च परंतप