१३.६५.१युधिष्ठिर उवाच
१३.६५.२दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ
यत्फलं तस्य भवति तन्मे ब्रूहि पितामह
१३.६५.३भीष्म उवाच
१३.६५.४उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः
मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि
स शत्रूणामुपरि च संतिष्ठति युधिष्ठिर
१३.६५.५यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते
उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम्
शकटं दम्यसंयुक्तं दत्तं भवति चैव हि
१३.६५.६युधिष्ठिर उवाच
१३.६५.७यत्फलं तिलदाने च भूमिदाने च कीर्तितम्
गोप्रदानेऽन्नदाने च भूयस्तद्ब्रूहि कौरव
१३.६५.८भीष्म उवाच
१३.६५.९शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम्
निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम
१३.६५.१०पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा
तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते
१३.६५.११माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति
सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति
१३.६५.१२सर्वकामैः स यजते यस्तिलैर्यजते पितॄन्
न चाकामेन दातव्यं तिलश्राद्धं कथंचन
१३.६५.१३महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः
ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो
१३.६५.१४पौष्टिका रूपदाश्चैव तथा पापविनाशनाः
तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते
१३.६५.१५आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा
महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः
१३.६५.१६तिलहोमपरा विप्राः सर्वे संयतमैथुनाः
समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः
१३.६५.१७सर्वेषामेव दानानां तिलदानं परं स्मृतम्
अक्षयं सर्वदानानां तिलदानमिहोच्यते
१३.६५.१८उत्पन्ने च पुरा हव्ये कुशिकर्षिः परंतप
तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम्
१३.६५.१९इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम्
विधानं येन विधिना तिलानामिह शस्यते
१३.६५.२०अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम्
समागमं महाराज ब्रह्मणा वै स्वयंभुवा
१३.६५.२१देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः
शुभं देशमयाचन्त यजेम इति पार्थिव
१३.६५.२२देवा ऊचुः
१३.६५.२३भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च
यजेमहि महाभाग यज्ञं भवदनुज्ञया
नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते
१३.६५.२४त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च
प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि
१३.६५.२५ब्रह्मोवाच
१३.६५.२६ददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः
यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः
१३.६५.२७देवा ऊचुः
१३.६५.२८भगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैः
इमं तु देशं मुनयः पर्युपासन्त नित्यदा
१३.६५.२९भीष्म उवाच
१३.६५.३०ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः
असितो देवलश्चैव देवयज्ञमुपागमन्
१३.६५.३१ततो देवा महात्मान ईजिरे यज्ञमच्युत
तथा समापयामासुर्यथाकालं सुरर्षभाः
१३.६५.३२त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे
षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे
१३.६५.३३प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम्
न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते
१३.६५.३४शीतवातातपसहां गृहभूमिं सुसंस्कृताम्
प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते
१३.६५.३५मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव
प्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते
१३.६५.३६अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः
गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते
१३.६५.३७तथा गवार्थे शरणं शीतवर्षसहं महत्
आसप्तमं तारयति कुलं भरतसत्तम
१३.६५.३८क्षेत्रभूमिं ददल्लोके पुत्र श्रियमवाप्नुयात्
रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत्
१३.६५.३९न चोषरां न निर्दग्धां महीं दद्यात्कथंचन
न श्मशानपरीतां च न च पापनिषेविताम्
१३.६५.४०पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः
तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते
१३.६५.४१तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः
पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः
१३.६५.४२अटवीपर्वताश्चैव नदीतीर्थानि यानि च
सर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः
१३.६५.४३इत्येतद्भूमिदानस्य फलमुक्तं विशां पते
अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ
१३.६५.४४गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च
तस्मान्महेश्वरो देवस्तपस्ताभिः समास्थितः
१३.६५.४५ब्रह्मलोके वसन्त्येताः सोमेन सह भारत
आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम्
१३.६५.४६पयसा हविषा दध्ना शकृताप्यथ चर्मणा
अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत
१३.६५.४७नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते
न वर्षं विषमं वापि दुःखमासां भवत्युत
१३.६५.४८ब्राह्मणैः सहिता यान्ति तस्मात्परतरं पदम्
एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः
१३.६५.४९रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः
ततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता
१३.६५.५०पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः
ता इमा विप्रमुख्येभ्यो यो ददाति महीपते
निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव
१३.६५.५१गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति
सर्वत्र विजयं चापि लभते मनुजाधिप
१३.६५.५२अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः
तस्माद्ददाति यो धेनुममृतं स प्रयच्छति
१३.६५.५३अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः
तस्माद्ददाति यो धेनुं स हौम्यं संप्रयच्छति
१३.६५.५४स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम्
विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते
१३.६५.५५प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ
तस्माद्ददाति यो धेनुं प्राणान्वै स प्रयच्छति
१३.६५.५६गावः शरण्या भूतानामिति वेदविदो विदुः
तस्माद्ददाति यो धेनुं शरणं संप्रयच्छति
१३.६५.५७न वधार्थं प्रदातव्या न कीनाशे न नास्तिके
गोजीविने न दातव्या तथा गौः पुरुषर्षभ
१३.६५.५८ददाति तादृशानां वै नरो गाः पापकर्मणाम्
अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः
१३.६५.५९न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा
न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै
१३.६५.६०दशगोसहस्रदः सम्यक्शक्रेण सह मोदते
अक्षयाँल्लभते लोकान्नरः शतसहस्रदः
१३.६५.६१इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम्
तथा भूमिप्रदानं च शृणुष्वान्ने च भारत
१३.६५.६२अन्नदानं प्रधानं हि कौन्तेय परिचक्षते
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः
१३.६५.६३श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप
स्वायंभुवं महाभागं स पश्यति नराधिप
१३.६५.६४न हिरण्यैर्न वासोभिर्नाश्वदानेन भारत
प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो
१३.६५.६५अन्नं वै परमं द्रव्यमन्नं श्रीश्च परा मता
अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा
१३.६५.६६सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः
न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः
१३.६५.६७अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत्
यदन्नो हि नरो राजंस्तदन्नास्तस्य देवताः
१३.६५.६८कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत
स संतरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते
१३.६५.६९अभुक्त्वातिथये चान्नं प्रयच्छेद्यः समाहितः
स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ
१३.६५.७०सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत्
पापं तरति चैवेह दुष्कृतं चापकर्षति
१३.६५.७१इत्येतदन्नदानस्य तिलदानस्य चैव ह
भूमिदानस्य च फलं गोदानस्य च कीर्तितम्