१३. अनुशासनपर्व
१३.६६.१युधिष्ठिर उवाच

१३.६६.२श्रुतं दानफलं तात यत्त्वया परिकीर्तितम्
अन्नं तु ते विशेषेण प्रशस्तमिह भारत

१३.६६.३पानीयदानं परमं कथं चेह महाफलम्
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह

१३.६६.४भीष्म उवाच

१३.६६.५हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ

१३.६६.६यदन्नं यच्च पानीयं संप्रदायाश्नुते नरः
न तस्मात्परमं दानं किंचिदस्तीति मे मतिः

१३.६६.७अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते

१३.६६.८अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा
अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः

१३.६६.९सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम्
यतश्चैतद्यथा चैतद्देवसत्रे महामते

१३.६६.१०अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत
प्राणदानाद्धि परमं न दानमिह विद्यते

१३.६६.११श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः
प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा

१३.६६.१२तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते
गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम्

१३.६६.१३अन्नं चापि प्रभवति पानीयात्कुरुसत्तम
नीरजातेन हि विना न किंचित्संप्रवर्तते

१३.६६.१४नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः
अमृतं च सुधा चैव स्वाहा चैव वषट्तथा

१३.६६.१५अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः
यतः प्राणभृतां प्राणाः संभवन्ति विशां पते

१३.६६.१६देवानाममृतं चान्नं नागानां च सुधा तथा
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः

१३.६६.१७अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः
तच्च सर्वं नरव्याघ्र पानीयात्संप्रवर्तते

१३.६६.१८तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित्
तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः

१३.६६.१९धन्यं यशस्यमायुष्यं जलदानं विशां पते
शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः

१३.६६.२०सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम्
प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते

१३.६६.२१तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते
अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः