१३. अनुशासनपर्व
१३.७१.१युधिष्ठिर उवाच

१३.७१.२उक्तं वै गोप्रदानं ते नाचिकेतमृषिं प्रति
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो

१३.७१.३नृगेण च यथा दुःखमनुभूतं महात्मना
एकापराधादज्ञानात्पितामह महामते

१३.७१.४द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः
मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया

१३.७१.५किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो
तत्त्वतः श्रोतुमिच्छामि गोदा यत्र विशन्त्युत

१३.७१.६भीष्म उवाच

१३.७१.७अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथापृच्छत्पद्मयोनिमेतदेव शतक्रतुः

१३.७१.८शक्र उवाच

१३.७१.९स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वया त्विषा
गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे

१३.७१.१०कीदृशा भगवँल्लोका गवां तद्ब्रूहि मेऽनघ
यानावसन्ति दातार एतदिच्छामि वेदितुम्

१३.७१.११कीदृशाः किंफलाः कः स्वित्परमस्तत्र वै गुणः
कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः

१३.७१.१२कियत्कालं प्रदानस्य दाता च फलमश्नुते
कथं बहुविधं दानं स्यादल्पमपि वा कथम्

१३.७१.१३बह्वीनां कीदृशं दानमल्पानां वापि कीदृशम्
अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे

१३.७१.१४कथं च बहुदाता स्यादल्पदात्रा समः प्रभो
अल्पप्रदाता बहुदः कथं च स्यादिहेश्वर

१३.७१.१५कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते
एतत्तथ्येन भगवन्मम शंसितुमर्हसि