१३. अनुशासनपर्व
१३.७०.१युधिष्ठिर उवाच

१३.७०.२दत्तानां फलसंप्राप्तिं गवां प्रब्रूहि मेऽनघ
विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम्

१३.७०.३भीष्म उवाच

१३.७०.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः

१३.७०.५ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम्
त्वं मामुपचरस्वेति नाचिकेतमभाषत
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत्

१३.७०.६उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च
इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम्
विस्मृतं मे तदादाय नदीतीरादिहाव्रज

१३.७०.७गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम्
न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः

१३.७०.८क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा
यमं पश्येति तं पुत्रमशपत्स महातपाः

१३.७०.९तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः
प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि

१३.७०.१०नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः
किं मया कृतमित्युक्त्वा निपपात महीतले

१३.७०.११तस्य दुःखपरीतस्य स्वं पुत्रमुपगूहतः
व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी

१३.७०.१२पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह
प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम्

१३.७०.१३स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः
दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम्

१३.७०.१४अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा
दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः

१३.७०.१५प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना
अन्वर्थं तं पितुर्मध्ये महर्षीणां न्यवेदयत्

१३.७०.१६कुर्वन्भवच्छासनमाशु यातो; ह्यहं विशालां रुचिरप्रभावाम्
वैवस्वतीं प्राप्य सभामपश्यं; सहस्रशो योजनहैमभौमाम्

१३.७०.१७दृष्ट्वैव मामभिमुखमापतन्तं; गृहं निवेद्यासनमादिदेश
वैवस्वतोऽर्घ्यादिभिरर्हणैश्च; भवत्कृते पूजयामास मां सः

१३.७०.१८ततस्त्वहं तं शनकैरवोचं; वृतं सदस्यैरभिपूज्यमानम्
प्राप्तोऽस्मि ते विषयं धर्मराज; लोकानर्हे यान्स्म तान्मे विधत्स्व

१३.७०.१९यमोऽब्रवीन्मां न मृतोऽसि सौम्य; यमं पश्येत्याह तु त्वां तपस्वी
पिता प्रदीप्ताग्निसमानतेजा; न तच्छक्यमनृतं विप्र कर्तुम्

१३.७०.२०दृष्टस्तेऽहं प्रतिगच्छस्व तात; शोचत्यसौ तव देहस्य कर्ता
ददामि किं चापि मनःप्रणीतं; प्रियातिथे तव कामान्वृणीष्व

१३.७०.२१तेनैवमुक्तस्तमहं प्रत्यवोचं; प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम्
इच्छाम्यहं पुण्यकृतां समृद्धाँ;ल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः

१३.७०.२२यानं समारोप्य तु मां स देवो; वाहैर्युक्तं सुप्रभं भानुमन्तम्
संदर्शयामास तदा स्म लोका;न्सर्वांस्तदा पुण्यकृतां द्विजेन्द्र

१३.७०.२३अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम्
नानासंस्थानरूपाणि सर्वरत्नमयानि च

१३.७०.२४चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च
अनेकशतभौमानि सान्तर्जलवनानि च

१३.७०.२५वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च
तरुणादित्यवर्णानि स्थावराणि चराणि च

१३.७०.२६भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च
सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान्

१३.७०.२७नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः
घोषवन्ति च यानानि युक्तान्येव सहस्रशः

१३.७०.२८क्षीरस्रवा वै सरितो गिरींश्च; सर्पिस्तथा विमलं चापि तोयम्
वैवस्वतस्यानुमतांश्च देशा;नदृष्टपूर्वान्सुबहूनपश्यम्

१३.७०.२९सर्वं दृष्ट्वा तदहं धर्मराज;मवोचं वै प्रभविष्णुं पुराणम्
क्षीरस्यैताः सर्पिषश्चैव नद्यः; शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः

१३.७०.३०यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता; ये दातारः साधवो गोरसानाम्
अन्ये लोकाः शाश्वता वीतशोकाः; समाकीर्णा गोप्रदाने रतानाम्

१३.७०.३१न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च
ज्ञात्वा देया विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम्

१३.७०.३२स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी; वैतानस्थो ब्राह्मणः पात्रमासाम्
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः

१३.७०.३३तिस्रो रात्रीरद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः
वत्सैः प्रीताः सुप्रजाः सोपचारा;स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम्

१३.७०.३४दत्त्वा धेनुं सुव्रतां कांस्यदोहां; कल्याणवत्सामपलायिनीं च
यावन्ति लोमानि भवन्ति तस्या;स्तावद्वर्षाण्यश्नुते स्वर्गलोकम्

१३.७०.३५तथानड्वाहं ब्राह्मणाय प्रदाय; दान्तं धुर्यं बलवन्तं युवानम्
कुलानुजीवं वीर्यवन्तं बृहन्तं; भुङ्क्ते लोकान्संमितान्धेनुदस्य

१३.७०.३६गोषु क्षान्तं गोशरण्यं कृतज्ञं; वृत्तिग्लानं तादृशं पात्रमाहुः
वृत्तिग्लाने संभ्रमे वा महार्थे; कृष्यर्थे वा होमहेतोः प्रसूत्याम्

१३.७०.३७गुर्वर्थे वा बालपुष्ट्याभिषङ्गा;द्गावो दातुं देशकालोऽविशिष्टः
अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौदकाश्च

१३.७०.३८नाचिकेत उवाच

१३.७०.३९श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम्
अगोमी गोप्रदातॄणां कथं लोकान्निगच्छति

१३.७०.४०ततो यमोऽब्रवीद्धीमान्गोप्रदाने परां गतिम्
गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः

१३.७०.४१अलाभे यो गवां दद्याद्घृतधेनुं यतव्रतः
तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव

१३.७०.४२घृतालाभे च यो दद्यात्तिलधेनुं यतव्रतः
स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते

१३.७०.४३तिलालाभे च यो दद्याज्जलधेनुं यतव्रतः
स कामप्रवहां शीतां नदीमेतामुपाश्नुते

१३.७०.४४एवमादीनि मे तत्र धर्मराजो न्यदर्शयत्
दृष्ट्वा च परमं हर्षमवापमहमच्युत

१३.७०.४५निवेदये चापि प्रियं भवत्सु; क्रतुर्महानल्पधनप्रचारः
प्राप्तो मया तात स मत्प्रसूतः; प्रपत्स्यते वेदविधिप्रवृत्तः

१३.७०.४६शापो ह्ययं भवतोऽनुग्रहाय; प्राप्तो मया यत्र दृष्टो यमो मे
दानव्युष्टिं तत्र दृष्ट्वा महार्थां; निःसंदिग्धं दानधर्मांश्चरिष्ये

१३.७०.४७इदं च मामब्रवीद्धर्मराजः; पुनः पुनः संप्रहृष्टो द्विजर्षे
दानेन तात प्रयतोऽभूः सदैव; विशेषतो गोप्रदानं च कुर्याः

१३.७०.४८शुद्धो ह्यर्थो नावमन्यः स्वधर्मा;त्पात्रे देयं देशकालोपपन्ने
तस्माद्गावस्ते नित्यमेव प्रदेया; मा भूच्च ते संशयः कश्चिदत्र

१३.७०.४९एताः पुरा अददन्नित्यमेव; शान्तात्मानो दानपथे निविष्टाः
तपांस्युग्राण्यप्रतिशङ्कमाना;स्ते वै दानं प्रददुश्चापि शक्त्या

१३.७०.५०काले शक्त्या मत्सरं वर्जयित्वा; शुद्धात्मानः श्रद्धिनः पुण्यशीलाः
दत्त्वा तप्त्वा लोकममुं प्रपन्ना; देदीप्यन्ते पुण्यशीलाश्च नाके

१३.७०.५१एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्तं प्रापणीयं परीक्ष्य
काम्याष्टम्यां वर्तितव्यं दशाहं; रसैर्गवां शकृता प्रस्नवैर्वा

१३.७०.५२वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने
तीर्थावाप्तिर्गोप्रयुक्तप्रदाने; पापोत्सर्गः कपिलायाः प्रदाने

१३.७०.५३गामप्येकां कपिलां संप्रदाय; न्यायोपेतां कल्मषाद्विप्रमुच्येत्
गवां रसात्परमं नास्ति किंचि;द्गवां दानं सुमहत्तद्वदन्ति

१३.७०.५४गावो लोकान्धारयन्ति क्षरन्त्यो; गावश्चान्नं संजनयन्ति लोके
यस्तज्जानन्न गवां हार्दमेति; स वै गन्ता निरयं पापचेताः

१३.७०.५५यत्ते दातुं गोसहस्रं शतं वा; शतार्धं वा दश वा साधुवत्साः
अप्येकां वा साधवे ब्राह्मणाय; सास्यामुष्मिन्पुण्यतीर्था नदी वै

१३.७०.५६प्राप्त्या पुष्ट्या लोकसंरक्षणेन; गावस्तुल्याः सूर्यपादैः पृथिव्याम्
शब्दश्चैकः संततिश्चोपभोग;स्तस्माद्गोदः सूर्य इवाभिभाति

१३.७०.५७गुरुं शिष्यो वरयेद्गोप्रदाने; स वै वक्ता नियतं स्वर्गदाता
विधिज्ञानां सुमहानेष धर्मो; विधिं ह्याद्यं विधयः संश्रयन्ति

१३.७०.५८एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्त्वा प्रापयेथाः परीक्ष्य
त्वय्याशंसन्त्यमरा मानवाश्च; वयं चापि प्रसृते पुण्यशीलाः

१३.७०.५९इत्युक्तोऽहं धर्मराज्ञा महर्षे; धर्मात्मानं शिरसाभिप्रणम्य
अनुज्ञातस्तेन वैवस्वतेन; प्रत्यागमं भगवत्पादमूलम्