१३. अनुशासनपर्व
१३.७३.१इन्द्र उवाच

१३.७३.२जानन्यो गामपहरेद्विक्रीयाद्वार्थकारणात्
एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत्

१३.७३.३ब्रह्मोवाच

१३.७३.४भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते
दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम्

१३.७३.५विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः

१३.७३.६घातकः खादको वापि तथा यश्चानुमन्यते
यावन्ति तस्या लोमानि तावद्वर्षाणि मज्जति

१३.७३.७ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके
विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो

१३.७३.८अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति
यावद्दाने फलं तस्यास्तावन्निरयमृच्छति

१३.७३.९सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते
सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशयम्

१३.७३.१०गोप्रदानं तारयते सप्त पूर्वांस्तथा परान्
सुवर्णं दक्षिणां दत्त्वा तावद्द्विगुणमुच्यते

१३.७३.११सुवर्णं परमं दानं सुवर्णं दक्षिणा परा
सुवर्णं पावनं शक्र पावनानां परं स्मृतम्

१३.७३.१२कुलानां पावनं प्राहुर्जातरूपं शतक्रतो
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते

१३.७३.१३भीष्म उवाच

१३.७३.१४एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ
इन्द्रो दशरथायाह रामायाह पिता तथा

१३.७३.१५राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो

१३.७३.१६पारंपर्यागतं चेदमृषयः संशितव्रताः
दुर्धरं धारयामासू राजानश्चैव धार्मिकाः
उपाध्यायेन गदितं मम चेदं युधिष्ठिर

१३.७३.१७य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे

१३.७३.१८तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा
इति ब्रह्मा स भगवानुवाच परमेश्वरः