१३.७४.१युधिष्ठिर उवाच
१३.७४.२विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो
प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह
१३.७४.३व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते
नियमानां फलं किं च स्वधीतस्य च किं फलम्
१३.७४.४दमस्येह फलं किं च वेदानां धारणे च किम्
अध्यापने फलं किं च सर्वमिच्छामि वेदितुम्
१३.७४.५अप्रतिग्राहके किं च फलं लोके पितामह
तस्य किं च फलं दृष्टं श्रुतं यः संप्रयच्छति
१३.७४.६स्वकर्मनिरतानां च शूराणां चापि किं फलम्
सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम्
१३.७४.७पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा
आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने
१३.७४.८एतत्सर्वमशेषेण पितामह यथातथम्
वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे
१३.७४.९भीष्म उवाच
१३.७४.१०यो व्रतं वै यथोद्दिष्टं तथा संप्रतिपद्यते
अखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः
१३.७४.११नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते
नियमानां क्रतूनां च त्वयावाप्तमिदं फलम्
१३.७४.१२स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च
इहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते
१३.७४.१३दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे
दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः
१३.७४.१४यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः
प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः
१३.७४.१५युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव
स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च
१३.७४.१६दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः
दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः
१३.७४.१७यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः
क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः
१३.७४.१८अदृश्यानि महाराज स्थानान्ययुतशो दिवि
ऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः
१३.७४.१९दमेन यानि नृपते गच्छन्ति परमर्षयः
कामयाना महत्स्थानं तस्माद्दानात्परो दमः
१३.७४.२०अध्यापकः परिक्लेशादक्षयं फलमश्नुते
विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप
१३.७४.२१अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति
गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते
१३.७४.२२क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि
युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते
१३.७४.२३वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत्
शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति
१३.७४.२४शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु
शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह
१३.७४.२५यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे
युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः
१३.७४.२६बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे
आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः
१३.७४.२७तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरे
वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः
१३.७४.२८गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे
मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथापरे
१३.७४.२९सांख्यशूराश्च बहवो योगशूरास्तथापरे
अरण्ये गृहवासे च शूराश्चातिथिपूजने
सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान्
१३.७४.३०धारणं सर्ववेदानां सर्वतीर्थावगाहनम्
सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम्
१३.७४.३१अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते
१३.७४.३२सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते
सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम्
१३.७४.३३सत्येन देवान्प्रीणाति पितॄन्वै ब्राह्मणांस्तथा
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लङ्घयेत्
१३.७४.३४मुनयः सत्यनिरता मुनयः सत्यविक्रमाः
मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते
सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ
१३.७४.३५दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया
असंशयं विनीतात्मा सर्वः स्वर्गे महीयते
१३.७४.३६ब्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिप
आ जन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह
न तस्य किंचिदप्राप्यमिति विद्धि जनाधिप
१३.७४.३७बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत
सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम्
१३.७४.३८ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम्
ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते
१३.७४.३९प्रत्यक्षं च तवाप्येतद्ब्राह्मणेषु तपस्विषु
बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः
तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते
१३.७४.४०मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु
शुश्रूषते यः पितरं न चासूयेत्कथंचन
मातरं वानहंवादी गुरुमाचार्यमेव च
१३.७४.४१तस्य राजन्फलं विद्धि स्वर्लोके स्थानमुत्तमम्
न च पश्येत नरकं गुरुशुश्रूषुरात्मवान्