१३.७८.१वसिष्ठ उवाच
१३.७८.२शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम्
गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति
१३.७८.३लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः
भवेम न च लिप्येम दोषेणेति परंतप
१३.७८.४स एव चेतसा तेन हतो लिप्येत सर्वदा
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः
१३.७८.५तथा सर्वाणि भूतानि स्थावराणि चराणि च
प्रदातारश्च गोलोकान्गच्छेयुरिति मानद
१३.७८.६ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः
एवं भवत्विति विभुर्लोकांस्तारयतेति च
१३.७८.७उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः
तपसोऽन्ते महाराज गावो लोकपरायणाः
१३.७८.८तस्माद्गावो महाभागाः पवित्रं परमुच्यते
तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि
१३.७८.९समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते
१३.७८.१०रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते
१३.७८.११समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतां सोमलोके महीयते
१३.७८.१२समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते
१३.७८.१३समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतामग्निलोके महीयते
१३.७८.१४समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते
१३.७८.१५अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम्
प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते
१३.७८.१६वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम्
प्रदाय वस्त्रसंवीतां वायुलोके महीयते
१३.७८.१७हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम्
प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते
१३.७८.१८पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम्
प्रदाय वस्त्रसंवीतां पितृलोके महीयते
१३.७८.१९सवत्सां पीवरीं दत्त्वा शितिकण्ठामलंकृताम्
वैश्वदेवमसंबाधं स्थानं श्रेष्ठं प्रपद्यते
१३.७८.२०समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम्
सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते
१३.७८.२१पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम्
प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते
१३.७८.२२वैराटपृष्ठमुक्षाणं सर्वरत्नैरलंकृतम्
प्रदाय मरुतां लोकानजरान्प्रतिपद्यते
१३.७८.२३वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम्
गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः
१३.७८.२४शितिकण्ठमनड्वाहं सर्वरत्नैरलंकृतम्
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते
१३.७८.२५गोप्रदानरतो याति भित्त्वा जलदसंचयान्
विमानेनार्कवर्णेन दिवि राजन्विराजता
१३.७८.२६तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः
रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम्
१३.७८.२७वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः
हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते
१३.७८.२८यावन्ति लोमानि भवन्ति धेन्वा;स्तावन्ति वर्षाणि महीयते सः
स्वर्गाच्च्युतश्चापि ततो नृलोके; कुले समुत्पत्स्यति गोमिनां सः