१३.८०.१युधिष्ठिर उवाच
१३.८०.२पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत्
पावनं परमं चैव तन्मे ब्रूहि पितामह
१३.८०.३भीष्म उवाच
१३.८०.४गावो महार्थाः पुण्याश्च तारयन्ति च मानवान्
धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा
१३.८०.५न हि पुण्यतमं किंचिद्गोभ्यो भरतसत्तम
एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः
१३.८०.६देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै
दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः
१३.८०.७मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा
गावो ददन्तः सततं सहस्रशतसंमिताः
गताः परमकं स्थानं देवैरपि सुदुर्लभम्
१३.८०.८अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ
१३.८०.९ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः
अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः
पितरं परिपप्रच्छ दृष्टलोकपरावरम्
१३.८०.१०को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते
किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः
१३.८०.११केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो
किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः
१३.८०.१२दानानामुत्तमं किं च किं च सत्रमतः परम्
पवित्राणां पवित्रं च यत्तद्ब्रूहि ममानघ
१३.८०.१३एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित्
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ
१३.८०.१४व्यास उवाच
१३.८०.१५गावः प्रतिष्ठा भूतानां तथा गावः परायणम्
गावः पुण्याः पवित्राश्च पावनं धर्म एव च
१३.८०.१६पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमः
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम्
१३.८०.१७ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः
१३.८०.१८तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम्
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक
१३.८०.१९ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः
गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते
१३.८०.२०ये चैताः संप्रयच्छन्ति साधवो वीतमत्सराः
ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ
१३.८०.२१यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम
१३.८०.२२सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका
सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा
१३.८०.२३रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः
तरुणादित्यसंकाशैर्भान्ति तत्र जलाशयाः
१३.८०.२४महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः
नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः
१३.८०.२५करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः
संतानकवनैः फुल्लैर्वृक्षैश्च समलंकृताः
१३.८०.२६निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः
उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः
१३.८०.२७सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः
१३.८०.२८सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाः
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः
१३.८०.२९नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ
१३.८०.३०रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर
सर्वकामसमृद्धार्था निःशोका गतमन्यवः
१३.८०.३१विमानेषु विचित्रेषु रमणीयेषु भारत
मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः
१३.८०.३२उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः
एताँल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर
१३.८०.३३यासामधिपतिः पूषा मारुतो बलवान्बली
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगंधराः
१३.८०.३४सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः
प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः
१३.८०.३५गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान्
१३.८०.३६न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाः
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत्
दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते
१३.८०.३७येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम्
यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत्
१३.८०.३८घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्
घृतं प्राशेद्घृतं दद्याद्गवां व्युष्टिं तथाश्नुते
१३.८०.३९त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः
गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत्
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम्
१३.८०.४०निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकः
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति
१३.८०.४१पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम्
देवत्वमपि च प्राप्ताः संसिद्धाश्च महाबलाः
१३.८०.४२गावः पवित्राः पुण्याश्च पावनं परमं महत्
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते
१३.८०.४३गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत्
पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः
१३.८०.४४अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि
विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः
१३.८०.४५अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसंमिताम्
त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम्
१३.८०.४६पुत्रकामश्च लभते पुत्रं धनमथापि च
पतिकामा च भर्तारं सर्वकामांश्च मानवः
गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः
१३.८०.४७एवमेता महाभागा यज्ञियाः सर्वकामदाः
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम्
१३.८०.४८इत्युक्तः स महातेजाः शुकः पित्रा महात्मना
पूजयामास गा नित्यं तस्मात्त्वमपि पूजय