१३.८१.१युधिष्ठिर उवाच
१३.८१.२मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम्
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान्
१३.८१.३भीष्म उवाच
१३.८१.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गोभिर्नृपेह संवादं श्रिया भरतसत्तम
१३.८१.५श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य संपदम्
१३.८१.६गाव ऊचुः
१३.८१.७कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि
विस्मिताः स्म महाभागे तव रूपस्य संपदा
१३.८१.८इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि
तत्त्वेन च सुवर्णाभे सर्वमेतद्ब्रवीहि नः
१३.८१.९श्रीरुवाच
१३.८१.१०लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता
मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः
१३.८१.११इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च
मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास्तथा
१३.८१.१२यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः
धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः
१३.८१.१३एवंप्रभावां मां गावो विजानीत सुखप्रदाम्
इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा
आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः
१३.८१.१४गाव ऊचुः
१३.८१.१५अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह
न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते
१३.८१.१६वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै
यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया
१३.८१.१७श्रीरुवाच
१३.८१.१८किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ
न मां संप्रति गृह्णीथ कस्माद्वै दुर्लभां सतीम्
१३.८१.१९सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः
१३.८१.२०महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः
१३.८१.२१क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे
१३.८१.२२गाव ऊचुः
१३.८१.२३नावमन्यामहे देवि न त्वां परिभवामहे
अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे
१३.८१.२४बहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि
वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे
१३.८१.२५श्रीरुवाच
१३.८१.२६अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः
प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति
१३.८१.२७महाभागा भवत्यो वै शरण्याः शरणागताम्
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम्
माननां त्वहमिच्छामि भवत्यः सततं शुभाः
१३.८१.२८अप्येकाङ्गे तु वो वस्तुमिच्छामि च सुकुत्सिते
न वोऽस्ति कुत्सितं किंचिदङ्गेष्वालक्ष्यतेऽनघाः
१३.८१.२९पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत
वसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ
१३.८१.३०भीष्म उवाच
१३.८१.३१एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः
संमन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप
१३.८१.३२अवश्यं मानना कार्या तवास्माभिर्यशस्विनि
शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे
१३.८१.३३श्रीरुवाच
१३.८१.३४दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः
एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः
१३.८१.३५भीष्म उवाच
१३.८१.३६एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत
१३.८१.३७एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम्
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम