१३.८५.१वसिष्ठ उवाच
१३.८५.२अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम्
पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः
१३.८५.३देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम्
ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो
१३.८५.४आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान्
१३.८५.५मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः
ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः
१३.८५.६लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः
ओंकारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा
१३.८५.७वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च
भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः
जुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो
१३.८५.८देवपत्न्यश्च कन्याश्च देवानां चैव मातरः
आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह
१३.८५.९यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः
स्वयंभुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि
१३.८५.१०तस्य शुक्रस्य निष्पन्दात्पांसून्संगृह्य भूमितः
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने
१३.८५.११ततस्तस्मिन्संप्रवृत्ते सत्रे ज्वलितपावके
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह
१३.८५.१२स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः
आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन
१३.८५.१३ततः संजनयामास भूतग्रामं स वीर्यवान्
ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम्
१३.८५.१४तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम्
सगुणस्तेजसो नित्यं तमस्याकाशमेव च
१३.८५.१५सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः
शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो
१३.८५.१६पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैः
भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत्
१३.८५.१७अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत्
सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः
१३.८५.१८मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत्
अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात्
अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि
१३.८५.१९तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताः
वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः
अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ
१३.८५.२०शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे
ऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम्
१३.८५.२१एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः
ऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात्
१३.८५.२२यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः
अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम्
१३.८५.२३रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम्
तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः
१३.८५.२४अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः
उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः
१३.८५.२५आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्ध्रुवम्
सर्वकामदमित्याहुस्तत्र हव्यमुदावहत्
१३.८५.२६ततोऽब्रवीन्महादेवो वरुणः परमात्मकः
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह
१३.८५.२७त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः
इति जानीत खगमा मम यज्ञफलं हि तत्
१३.८५.२८अग्निरुवाच
१३.८५.२९मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च
ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः
१३.८५.३०अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः
ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत्
१३.८५.३१अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह
यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम्
१३.८५.३२ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च
१३.८५.३३वयं च भगवन्सर्वे जगच्च सचराचरम्
तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः
वरुणश्चेश्वरो देवो लभतां काममीप्सितम्
१३.८५.३४निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः
जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम्
१३.८५.३५ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पयत्
पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित्
१३.८५.३६तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत्
आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः
भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ
१३.८५.३७एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः
सर्वं संतानमेतेषामिदमित्युपधारय
१३.८५.३८भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च
१३.८५.३९शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि
१३.८५.४०अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः
बृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च
१३.८५.४१घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः
एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः
१३.८५.४२ब्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताः
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः
१३.८५.४३कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथा
भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित्
१३.८५.४४अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम्
प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः
१३.८५.४५एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत्
१३.८५.४६वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः
कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ
१३.८५.४७जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः
तस्मादङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः
१३.८५.४८ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः
इमे नः संतरिष्यन्ति प्रजाभिर्जगदीश्वराः
१३.८५.४९सर्वे प्रजानां पतयः सर्वे चातितपस्विनः
त्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम्
१३.८५.५०तथैव वंशकर्तारस्तव तेजोविवर्धनाः
भवेयुर्वेदविदुषः सर्वे वाक्पतयस्तथा
१३.८५.५१देवपक्षधराः सौम्याः प्राजापत्या महर्षयः
आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा
१३.८५.५२सर्वे हि वयमेते च तवैव प्रसवः प्रभो
देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह
१३.८५.५३मरीचिमादितः कृत्वा सर्वे चैवाथ भार्गवाः
अपत्यानीति संप्रेक्ष्य क्षमयाम पितामह
१३.८५.५४ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः
स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा
१३.८५.५५एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम्
१३.८५.५६अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः
अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा
१३.८५.५७अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम्
जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात्
१३.८५.५८कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम्
हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते
१३.८५.५९तस्मादग्निपराः सर्वा देवता इति शुश्रुम
ब्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम्
१३.८५.६०तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम्
१३.८५.६१तस्य चातमसो लोका गच्छतः परमां गतिम्
स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव
१३.८५.६२आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम्
ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः
१३.८५.६३ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम्
१३.८५.६४ददाति पश्चिमां संध्यां यः सुवर्णं धृतव्रतः
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः
१३.८५.६५सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम्
इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते
१३.८५.६६ततः संपद्यतेऽन्येषु लोकेष्वप्रतिमः सदा
अनावृतगतिश्चैव कामचारी भवत्युत
१३.८५.६७न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत्
सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान्
१३.८५.६८यस्तु संजनयित्वाग्निमादित्योदयनं प्रति
दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते
१३.८५.६९अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम्
यथेष्टगुणसंपन्नं प्रवर्तकमिति स्मृतम्
१३.८५.७०भीष्म उवाच
१३.८५.७१इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान्
ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात्
१३.८५.७२एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते
प्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम्
१३.८५.७३तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु
ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि