१३.८४.१देवा ऊचुः
१३.८४.२असुरस्तारको नाम त्वया दत्तवरः प्रभो
सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम्
१३.८४.३तस्माद्भयं समुत्पन्नमस्माकं वै पितामह
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः
१३.८४.४ब्रह्मोवाच
१३.८४.५समोऽहं सर्वभूतानामधर्मं नेह रोचये
हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः
१३.८४.६वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः
१३.८४.७देवा ऊचुः
१३.८४.८वरदानाद्भगवतो दैतेयो बलगर्वितः
देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत्
१३.८४.९स हि नैव स्म देवानां नासुराणां न रक्षसाम्
वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह
१३.८४.१०देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते
न भविष्यति वोऽपत्यमिति सर्वजगत्पते
१३.८४.११ब्रह्मोवाच
१३.८४.१२हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः
स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम्
१३.८४.१३तद्वै सर्वानतिक्रम्य देवदानवराक्षसान्
मानुषानथ गन्धर्वान्नागानथ च पक्षिणः
१३.८४.१४अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति
यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः
१३.८४.१५सनातनो हि संकल्पः काम इत्यभिधीयते
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत्
१३.८४.१६तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम्
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति
१३.८४.१७स तु नावाप तं शापं नष्टः स हुतभुक्तदा
तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः
१३.८४.१८अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम्
तारकस्य वधोपायः कथितो वै मयानघाः
१३.८४.१९न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै
बलान्यतिबलं प्राप्य नबलानि भवन्ति वै
१३.८४.२०हन्यादवध्यान्वरदानपि चैव तपस्विनः
संकल्पाभिरुचिः कामः सनातनतमोऽनलः
१३.८४.२१जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः
हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः
१३.८४.२२अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः
स वो मनोगतं कामं देवः संपादयिष्यति
१३.८४.२३एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः
जग्मुः संसिद्धसंकल्पाः पर्येषन्तो विभावसुम्
१३.८४.२४ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह
काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः
१३.८४.२५परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः
लोकानन्वचरन्सिद्धाः सर्व एव भृगूद्वह
नष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनम्
१३.८४.२६ततः संजातसंत्रासानग्नेर्दर्शनलालसान्
जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः
उवाच देवान्मण्डूको रसातलतलोत्थितः
१३.८४.२७रसातलतले देवा वसत्यग्निरिति प्रभो
संतापादिह संप्राप्तः पावकप्रभवादहम्
१३.८४.२८स संसुप्तो जले देवा भगवान्हव्यवाहनः
अपः संसृज्य तेजोभिस्तेन संतापिता वयम्
१३.८४.२९तस्य दर्शनमिष्टं वो यदि देवा विभावसोः
तत्रैनमभिगच्छध्वं कार्यं वो यदि वह्निना
१३.८४.३०गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत्
१३.८४.३१हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम्
शशाप स तमासाद्य न रसान्वेत्स्यसीति वै
१३.८४.३२तं स संयुज्य शापेन मण्डूकं पावको ययौ
अन्यत्र वासाय विभुर्न च देवानदर्शयत्
१३.८४.३३देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह
यत्तच्छृणु महाबाहो गदतो मम सर्वशः
१३.८४.३४देवा ऊचुः
१३.८४.३५अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः
सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ
१३.८४.३६बिलवासगतांश्चैव निरादानानचेतसः
गतासूनपि वः शुष्कान्भूमिः संधारयिष्यति
तमोगतायामपि च निशायां विचरिष्यथ
१३.८४.३७इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम्
परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम्
१३.८४.३८अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः
अश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह
१३.८४.३९शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितः
प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह
१३.८४.४०इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः
प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया
१३.८४.४१अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो
देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः
१३.८४.४२देवा ऊचुः
१३.८४.४३प्रतीपया जिह्वयापि सर्वाहारान्करिष्यथ
वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम्
इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः
१३.८४.४४अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगतस्तदा
शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन्
१३.८४.४५शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि
जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा
१३.८४.४६दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः
भविता न त्वमत्यन्तं शकुने नष्टवागिति
१३.८४.४७आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति
बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम्
१३.८४.४८इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः
तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि
१३.८४.४९ततःप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते
उत्पादने तथोपायमनुजग्मुश्च मानवाः
१३.८४.५०आपो रसातले यास्तु संसृष्टाश्चित्रभानुना
ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव
पावकेनाधिशयता संतप्तास्तस्य तेजसा
१३.८४.५१ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा
किमागमनमित्येवं तानपृच्छत पावकः
१३.८४.५२तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः
त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति
कृते च तस्मिन्भविता तवापि सुमहान्गुणः
१३.८४.५३अग्निरुवाच
१३.८४.५४ब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराः
भवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा
१३.८४.५५देवा ऊचुः
१३.८४.५६असुरस्तारको नाम ब्रह्मणो वरदर्पितः
अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम्
१३.८४.५७इमान्देवगणांस्तात प्रजापतिगणांस्तथा
ऋषींश्चापि महाभागान्परित्रायस्व पावक
१३.८४.५८अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो
यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन
१३.८४.५९शप्तानां नो महादेव्या नान्यदस्ति परायणम्
अन्यत्र भवतो वीर्यं तस्मात्त्रायस्व नस्ततः
१३.८४.६०इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक्
जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति
१३.८४.६१तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा
१३.८४.६२तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना
संतापमगमत्तीव्रं सा सोढुं न शशाक ह
१३.८४.६३आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते
गङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत्
१३.८४.६४अबुद्धापतितेनाथ नादेन विपुलेन सा
वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना
विसंज्ञा नाशकद्गर्भं संधारयितुमात्मना
१३.८४.६५सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी
उवाच वचनं विप्र तदा गर्भबलोद्धता
न ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे
१३.८४.६६विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम्
विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ
१३.८४.६७धारणे नास्य शक्ताहं गर्भस्य तपतां वर
उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथंचन
१३.८४.६८न चेतसोऽस्ति संस्पर्शो मम देव विभावसो
आपदर्थे हि संबन्धः सुसूक्ष्मोऽपि महाद्युते
१३.८४.६९यदत्र गुणसंपन्नमितरं वा हुताशन
त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ
१३.८४.७०तामुवाच ततो वह्निर्धार्यतां धार्यतामयम्
गर्भो मत्तेजसा युक्तो महागुणफलोदयः
१३.८४.७१शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा
न हि ते किंचिदप्राप्यं मद्रेतोधारणादृते
१३.८४.७२सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा
समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा
१३.८४.७३समर्था धारणे चापि रुद्रतेजःप्रधर्षिता
नाशकत्तं तदा गर्भं संधारयितुमोजसा
१३.८४.७४सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम्
दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह
पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः
१३.८४.७५कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते
तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे
१३.८४.७६गङ्गोवाच
१३.८४.७७जातरूपः स गर्भो वै तेजसा त्वमिवानल
सुवर्णो विमलो दीप्तः पर्वतं चावभासयत्
१३.८४.७८पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः
गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर
१३.८४.७९तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः
यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा
तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत
१३.८४.८०पर्यधावत शैलांश्च नदीः प्रस्रवणानि च
व्यदीपयत्तेजसा च त्रैलोक्यं सचराचरम्
१३.८४.८१एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत
१३.८४.८२पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्
जगामेष्टं ततो देशं तदा भार्गवनन्दन
१३.८४.८३एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते
हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा
पृथिवी च तदा देवी ख्याता वसुमतीति वै
१३.८४.८४स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः
१३.८४.८५ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम्
जातस्नेहाश्च तं बालं पुपुषुः स्तन्यविस्रवैः
१३.८४.८६ततः स कार्त्तिकेयत्वमवाप परमद्युतिः
स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत्
१३.८४.८७एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम्
१३.८४.८८ततःप्रभृति चाप्येतज्जातरूपमुदाहृतम्
यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः
१३.८४.८९पवित्राणां पवित्रं हि कनकं द्विजसत्तम
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम्
१३.८४.९०रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम्
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्