१३. अनुशासनपर्व
१३.९३.१युधिष्ठिर उवाच

१३.९३.२द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते
अन्नं ब्राह्मणकामाय कथमेतत्पितामह

१३.९३.३भीष्म उवाच

१३.९३.४अवेदोक्तव्रताश्चैव भुञ्जानाः कार्यकारिणः
वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर

१३.९३.५युधिष्ठिर उवाच

१३.९३.६यदिदं तप इत्याहुरुपवासं पृथग्जनाः
तपः स्यादेतदिह वै तपोऽन्यद्वापि किं भवेत्

१३.९३.७भीष्म उवाच

१३.९३.८मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः
आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित्

१३.९३.९त्यागस्यापि च संपत्तिः शिष्यते तप उत्तमम्
सदोपवासी च भवेद्ब्रह्मचारी तथैव च

१३.९३.१०मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत्
कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत

१३.९३.११अमृताशी सदा च स्यात्पवित्री च सदा भवेत्
ऋतवादी सदा च स्यान्नियतश्च सदा भवेत्

१३.९३.१२विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः
अमांसाशी सदा च स्यात्पवित्री च सदा भवेत्

१३.९३.१३युधिष्ठिर उवाच

१३.९३.१४कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव
विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः

१३.९३.१५भीष्म उवाच

१३.९३.१६अन्तरा सायमाशं च प्रातराशं तथैव च
सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः

१३.९३.१७भार्यां गच्छन्ब्रह्मचारी सदा भवति चैव ह
ऋतवादी सदा च स्याद्दानशीलश्च मानवः

१३.९३.१८अभक्षयन्वृथा मांसममांसाशी भवत्युत
दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन्

१३.९३.१९भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर

१३.९३.२०अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत

१३.९३.२१देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम्

१३.९३.२२तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः
उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप

१३.९३.२३देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा