१३. अनुशासनपर्व
१३.९२.१भीष्म उवाच

१३.९२.२तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः
पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा

१३.९२.३ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत
तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः

१३.९२.४निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत
तर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै

१३.९२.५अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह
सोममेवाभ्यपद्यन्त निवापान्नाभिपीडिताः

१३.९२.६तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः
निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम्

१३.९२.७तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः
स्वयंभूसदनं यात स वः श्रेयो विधास्यति

१३.९२.८ते सोमवचनाद्देवाः पितृभिः सह भारत
मेरुशृङ्गे समासीनं पितामहमुपागमन्

१३.९२.९पितर ऊचुः

१३.९२.१०निवापान्नेन भगवन्भृशं पीड्यामहे वयम्
प्रसादं कुरु नो देव श्रेयो नः संविधीयताम्

१३.९२.११इति तेषां वचः श्रुत्वा स्वयंभूरिदमब्रवीत्
एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति

१३.९२.१२अग्निरुवाच

१३.९२.१३सहितास्तात भोक्ष्यामो निवापे समुपस्थिते
जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः

१३.९२.१४एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन्
एतस्मात्कारणाच्चाग्नेः प्राक्तनं दीयते नृप

१३.९२.१५निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ
न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत
रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ

१३.९२.१६पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे
प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः

१३.९२.१७ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः
सोमायेति च वक्तव्यं तथा पितृमतेति च

१३.९२.१८रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या
निवापे नोपतिष्ठेत संग्राह्या नान्यवंशजाः

१३.९२.१९जलं प्रतरमाणश्च कीर्तयेत पितामहान्
नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम्

१३.९२.२०पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः
सुहृत्संबन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम्

१३.९२.२१कल्माषगोयुगेनाथ युक्तेन तरतो जलम्
पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतः
सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः

१३.९२.२२मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वै
पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः

१३.९२.२३पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा
अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः
एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः

१३.९२.२४एते च पितरो राजन्नेष श्राद्धविधिः परः
प्रेतास्तु पिण्डसंबन्धान्मुच्यन्ते तेन कर्मणा

१३.९२.२५इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम्
ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम्