१३.९५.१भीष्म उवाच
१३.९५.२अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः
व्यचरन्भक्षयन्तो वै मूलानि च फलानि च
१३.९५.३अथापश्यन्सुपीनांसपाणिपादमुखोदरम्
परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम्
१३.९५.४अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन्
१३.९५.५वसिष्ठ उवाच
१३.९५.६नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम्
सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः
१३.९५.७अत्रिरुवाच
१३.९५.८नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम्
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्शुनःसखः
१३.९५.९विश्वामित्र उवाच
१३.९५.१०नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः
१३.९५.११जमदग्निरुवाच
१३.९५.१२नैतस्येह यथास्माकं भक्तमिन्धनमेव च
संचिन्त्य वार्षिकं किंचित्तेन पीवाञ्शुनःसखः
१३.९५.१३कश्यप उवाच
१३.९५.१४नैतस्येह यथास्माकं चत्वारश्च सहोदराः
देहि देहीति भिक्षन्ति तेन पीवाञ्शुनःसखः
१३.९५.१५भरद्वाज उवाच
१३.९५.१६नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः
शोको भार्यापवादेन तेन पीवाञ्शुनःसखः
१३.९५.१७गौतम उवाच
१३.९५.१८नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम्
एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः
१३.९५.१९भीष्म उवाच
१३.९५.२०अथ दृष्ट्वा परिव्राट्स तान्महर्षीञ्शुनःसखः
अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत्
१३.९५.२१परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम्
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते
१३.९५.२२एकनिश्चयकार्याश्च व्यचरन्त वनानि ते
आददानाः समुद्धृत्य मूलानि च फलानि च
१३.९५.२३कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम्
शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम्
१३.९५.२४बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम्
वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम्
१३.९५.२५नानाविधैश्च विहगैर्जलप्रकरसेविभिः
एकद्वारामनादेयां सूपतीर्थामकर्दमाम्
१३.९५.२६वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना
यातुधानीति विख्याता पद्मिनीं तामरक्षत
१३.९५.२७शुनःसखसहायास्तु बिसार्थं ते महर्षयः
पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम्
१३.९५.२८ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम्
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः
१३.९५.२९एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम्
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि
१३.९५.३०यातुधान्युवाच
१३.९५.३१यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथंचन
आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः
१३.९५.३२ऋषय ऊचुः
१३.९५.३३सर्व एव क्षुधार्ताः स्म न चान्यत्किंचिदस्ति नः
भवत्याः संमते सर्वे गृह्णीमहि बिसान्युत
१३.९५.३४यातुधान्युवाच
१३.९५.३५समयेन बिसानीतो गृह्णीध्वं कामकारतः
एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम्
१३.९५.३६भीष्म उवाच
१३.९५.३७विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्
अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत्
१३.९५.३८अरात्रिरत्रेः सा रात्रिर्यां नाधीते त्रिरद्य वै
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने
१३.९५.३९यातुधान्युवाच
१३.९५.४०यथोदाहृतमेतत्ते मयि नाम महामुने
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्
१३.९५.४१वसिष्ठ उवाच
१३.९५.४२वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासं गृहेष्वपि
वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्
१३.९५.४३यातुधान्युवाच
१३.९५.४४नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
१३.९५.४५कश्यप उवाच
१३.९५.४६कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः
काश्यः काशनिकाशत्वादेतन्मे नाम धारय
१३.९५.४७यातुधान्युवाच
१३.९५.४८यथोदाहृतमेतत्ते मयि नाम महामुने
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्
१३.९५.४९भरद्वाज उवाच
१३.९५.५०भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान्
भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने
१३.९५.५१यातुधान्युवाच
१३.९५.५२नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
१३.९५.५३गौतम उवाच
१३.९५.५४गोदमो दमगोऽधूमो दमो दुर्दर्शनश्च ते
विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे
१३.९५.५५यातुधान्युवाच
१३.९५.५६यथोदाहृतमेतत्ते मयि नाम महामुने
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
१३.९५.५७विश्वामित्र उवाच
१३.९५.५८विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा
विश्वामित्रमिति ख्यातं यातुधानि निबोध मे
१३.९५.५९यातुधान्युवाच
१३.९५.६०नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
१३.९५.६१जमदग्निरुवाच
१३.९५.६२जाजमद्यजजा नाम मृजा माह जिजायिषे
जमदग्निरिति ख्यातमतो मां विद्धि शोभने
१३.९५.६३यातुधान्युवाच
१३.९५.६४यथोदाहृतमेतत्ते मयि नाम महामुने
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
१३.९५.६५अरुन्धत्युवाच
१३.९५.६६धरां धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम्
मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम्
१३.९५.६७यातुधान्युवाच
१३.९५.६८नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
१३.९५.६९गण्डोवाच
१३.९५.७०गण्डं गण्डं गतवती गण्डगण्डेति संज्ञिता
गण्डगण्डेव गण्डेति विद्धि मानलसंभवे
१३.९५.७१यातुधान्युवाच
१३.९५.७२नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
१३.९५.७३पशुसख उवाच
१३.९५.७४सखा सखे यः सख्येयः पशूनां च सखा सदा
गौणं पशुसखेत्येवं विद्धि मामग्निसंभवे
१३.९५.७५यातुधान्युवाच
१३.९५.७६नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
१३.९५.७७शुनःसख उवाच
१३.९५.७८एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे
शुनःसखसखायं मां यातुधान्युपधारय
१३.९५.७९यातुधान्युवाच
१३.९५.८०नाम तेऽव्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा
तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज
१३.९५.८१शुनःसख उवाच
१३.९५.८२सकृदुक्तं मया नाम न गृहीतं यदा त्वया
तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम्
१३.९५.८३भीष्म उवाच
१३.९५.८४सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा
कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह
१३.९५.८५शुनःसखश्च हत्वा तां यातुधानीं महाबलाम्
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत्
१३.९५.८६ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च
यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः
१३.९५.८७श्रमेण महता युक्तास्ते बिसानि कलापशः
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा
१३.९५.८८अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन्
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ
१३.९५.८९ऋषय ऊचुः
१३.९५.९०केन क्षुधाभिभूतानामस्माकं पापकर्मणा
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम्
१३.९५.९१ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः
त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन
१३.९५.९२त उक्त्वा बाढमित्येव सर्व एव शुनःसखम्
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः
१३.९५.९३अत्रिरुवाच
१३.९५.९४स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु
अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः
१३.९५.९५वसिष्ठ उवाच
१३.९५.९६अनध्यायपरो लोके शुनः स परिकर्षतु
परिव्राट्कामवृत्तोऽस्तु बिसस्तैन्यं करोति यः
१३.९५.९७शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु
अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः
१३.९५.९८कश्यप उवाच
१३.९५.९९सर्वत्र सर्वं पणतु न्यासलोपं करोतु च
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः
१३.९५.१००वृथामांसं समश्नातु वृथादानं करोतु च
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः
१३.९५.१०१भरद्वाज उवाच
१३.९५.१०२नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः
१३.९५.१०३उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः
१३.९५.१०४जमदग्निरुवाच
१३.९५.१०५पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम्
अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः
१३.९५.१०६द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान्
अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः
१३.९५.१०७गौतम उवाच
१३.९५.१०८अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु
विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः
१३.९५.१०९उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः
१३.९५.११०विश्वामित्र उवाच
१३.९५.१११जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः
अगतिर्बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः
१३.९५.११२अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहंकृतः
कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः
१३.९५.११३वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः
अयाज्यस्य भवेदृत्विग्बिसस्तैन्यं करोति यः
१३.९५.११४अरुन्धत्युवाच
१३.९५.११५नित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः
एका स्वादु समश्नातु बिसस्तैन्यं करोति या
१३.९५.११६ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये
अभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या
१३.९५.११७गण्डोवाच
१३.९५.११८अनृतं भाषतु सदा साधुभिश्च विरुध्यतु
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या
१३.९५.११९साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव ह
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या
१३.९५.१२०पशुसख उवाच
१३.९५.१२१दास्य एव प्रजायेत सोऽप्रसूतिरकिंचनः
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः
१३.९५.१२२शुनःसख उवाच
१३.९५.१२३अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये
आथर्वणं वेदमधीत्य विप्रः; स्नायीत यो वै हरते बिसानि
१३.९५.१२४ऋषय ऊचुः
१३.९५.१२५इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख
१३.९५.१२६शुनःसख उवाच
१३.९५.१२७न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः
सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया
१३.९५.१२८मया ह्यन्तर्हितानीह बिसानीमानि पश्यत
परीक्षार्थं भगवतां कृतमेतन्मयानघाः
रक्षणार्थं च सर्वेषां भवतामहमागतः
१३.९५.१२९यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी
वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः
१३.९५.१३०दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसंभवा
तस्मादस्म्यागतो विप्रा वासवं मां निबोधत
१३.९५.१३१अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः
१३.९५.१३२भीष्म उवाच
१३.९५.१३३ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम्
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम्
१३.९५.१३४एवमेते महात्मानो भोगैर्बहुविधैरपि
क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः
नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन्
१३.९५.१३५तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत्
एष धर्मः परो राजन्नलोभ इति विश्रुतः
१३.९५.१३६इदं नरः सच्चरितं समवायेषु कीर्तयेत्
सुखभागी च भवति न च दुर्गाण्यवाप्नुते
१३.९५.१३७प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा
यशोधर्मार्थभागी च भवति प्रेत्य मानवः