१४.१४.१वैशंपायन उवाच
१४.१४.२एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः
समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः
१४.१४.३सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम्
द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः
१४.१४.४नारदेनाथ भीमेन नकुलेन च पार्थिवः
कृष्णया सहदेवेन विजयेन च धीमता
१४.१४.५अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः
व्यजहाच्छोकजं दुःखं संतापं चैव मानसम्
१४.१४.६अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः
कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः
अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम्
१४.१४.७प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम्
व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः
१४.१४.८आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुंगवैः
न सूक्ष्ममपि मे किंचिद्व्यलीकमिह विद्यते
१४.१४.९अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः
पुरस्कृत्येह भवतः समानेष्यामहे मखम्
१४.१४.१०हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह
बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम
१४.१४.११तथा भगवता चित्रं कल्याणं बहु भाषितम्
देवर्षिणा नारदेन देवस्थानेन चैव ह
१४.१४.१२नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून्
लभते व्यसनं प्राप्य सुहृदः साधुसंमतान्
१४.१४.१३एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः
अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ
पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः
१४.१४.१४ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः
एवं नातिमहान्कालः स तेषामभ्यवर्तत
१४.१४.१५कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा
महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम्
१४.१४.१६भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन
सहितो धृतराष्ट्रेण प्रददावौर्ध्वदैहिकम्
१४.१४.१७ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः
धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम्
१४.१४.१८स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम्
अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह