१४.१५.१जनमेजय उवाच
१४.१५.२विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम
राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनंजयौ
१४.१५.३वैशंपायन उवाच
१४.१५.४विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ
१४.१५.५विजह्राते मुदा युक्तौ दिवि देवेश्वराविव
तौ वनेषु विचित्रेषु पर्वतानां च सानुषु
१४.१५.६शैलेषु रमणीयेषु पल्वलेषु नदीषु च
चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने
१४.१५.७इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ
प्रविश्य तां सभां रम्यां विजह्राते च भारत
१४.१५.८तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव
कथायोगे कथायोगे कथयामासतुस्तदा
१४.१५.९ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ
१४.१५.१०मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः
निश्चयज्ञः स पार्थाय कथयामास केशवः
१४.१५.११पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः
कथाभिः शमयामास पार्थं शौरिर्जनार्दनः
१४.१५.१२स तमाश्वास्य विधिवद्विधानज्ञो महातपाः
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः
१४.१५.१३ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह
सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः
१४.१५.१४विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप
त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह
१४.१५.१५असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः
भीमसेनप्रभावेन यमयोश्च नरोत्तम
१४.१५.१६धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम्
धर्मेण निहतः संख्ये स च राजा सुयोधनः
१४.१५.१७अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः
१४.१५.१८प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह
१४.१५.१९रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव
किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन
१४.१५.२०यत्र धर्मसुतो राजा यत्र भीमो महाबलः
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम
१४.१५.२१तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत
रमणीयेषु पुण्येषु सहितस्य त्वयानघ
१४.१५.२२कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः
बलदेवं च कौरव्य तथान्यान्वृष्णिपुंगवान्
१४.१५.२३सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति
रोचतां गमनं मह्यं तवापि पुरुषर्षभ
१४.१५.२४उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः
स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते
१४.१५.२५शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः
तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना
१४.१५.२६धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा
१४.१५.२७तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम्
१४.१५.२८न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते
कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति
१४.१५.२९सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथंचन
१४.१५.३०प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन
धार्तराष्ट्रो हतो राजा सबलः सपदानुगः
१४.१५.३१पृथिवी च वशे तात धर्मपुत्रस्य धीमतः
स्थिता समुद्रवसना सशैलवनकानना
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव
१४.१५.३२धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम्
उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः
स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ
१४.१५.३३तन्मया सह गत्वाद्य राजानं कुरुवर्धनम्
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति
१४.१५.३४इदं शरीरं वसु यच्च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे
प्रियश्च मान्यश्च हि मे युधिष्ठिरः; सदा कुरूणामधिपो महामतिः
१४.१५.३५प्रयोजनं चापि निवासकारणे; न विद्यते मे त्वदृते महाभुज
स्थिता हि पृथ्वी तव पार्थ शासने; गुरोः सुवृत्तस्य युधिष्ठिरस्य ह
१४.१५.३६इतीदमुक्तं स तदा महात्मना; जनार्दनेनामितविक्रमोऽर्जुनः
तथेति कृच्छ्रादिव वाचमीरय;ज्जनार्दनं संप्रतिपूज्य पार्थिव