१४.१९.१ब्राह्मण उवाच
१४.१९.२यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन्
पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत्
१४.१९.३सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः
व्यपेतभयमन्युश्च कामहा मुच्यते नरः
१४.१९.४आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः
अमानी निरभीमानः सर्वतो मुक्त एव सः
१४.१९.५जीवितं मरणं चोभे सुखदुःखे तथैव च
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते
१४.१९.६न कस्यचित्स्पृहयते नावजानाति किंचन
निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः
१४.१९.७अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्वचित्
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते
१४.१९.८नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः
धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते
१४.१९.९अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम्
अस्वस्थमवशं नित्यं जन्मसंसारमोहितम्
१४.१९.१०वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव
१४.१९.११अगन्धरसमस्पर्शमशब्दमपरिग्रहम्
अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते
१४.१९.१२पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम्
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते
१४.१९.१३विहाय सर्वसंकल्पान्बुद्ध्या शारीरमानसान्
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः
१४.१९.१४विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम्
परमाप्नोति संशान्तमचलं दिव्यमक्षरम्
१४.१९.१५अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः
१४.१९.१६तस्योपदेशं पश्यामि यथावत्तन्निबोध मे
यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि
१४.१९.१७इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्
तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत्
१४.१९.१८तपस्वी त्यक्तसंकल्पो दम्भाहंकारवर्जितः
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि
१४.१९.१९स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि
१४.१९.२०संयतः सततं युक्त आत्मवान्विजितेन्द्रियः
तथायमात्मनात्मानं साधु युक्तः प्रपश्यति
१४.१९.२१यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति
तथारूपमिवात्मानं साधु युक्तः प्रपश्यति
१४.१९.२२इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत्
योगी निष्कृष्टमात्मानं तथा संपश्यते तनौ
१४.१९.२३मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम्
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम्
१४.१९.२४यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत्
तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः
१४.१९.२५अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते
विनिवृत्य जरामृत्यू न हृष्यति न शोचति
१४.१९.२६देवानामपि देवत्वं युक्तः कारयते वशी
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम्
१४.१९.२७विनश्यत्स्वपि लोकेषु न भयं तस्य जायते
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित्
१४.१९.२८दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः
न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः
१४.१९.२९नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते
नातः सुखतरं किंचिल्लोके क्वचन विद्यते
१४.१९.३०सम्यग्युक्त्वा यदात्मानमात्मन्येव प्रपश्यति
तदैव न स्पृहयते साक्षादपि शतक्रतोः
१४.१९.३१निर्वेदस्तु न गन्तव्यो युञ्जानेन कथंचन
योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु
१४.१९.३२दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे
पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः
१४.१९.३३पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत्
तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः
१४.१९.३४प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते
तस्मिन्काये मनश्चार्यं न कथंचन बाह्यतः
१४.१९.३५संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत्
१४.१९.३६दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम्
१४.१९.३७इत्युक्तः स मया शिष्यो मेधावी मधुसूदन
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम्
१४.१९.३८भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते
कथं रसत्वं व्रजति शोणितं जायते कथम्
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति
१४.१९.३९कथमेतानि सर्वाणि शरीराणि शरीरिणाम्
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम्
निरोजसां निष्क्रमणं मलानां च पृथक्पृथक्
१४.१९.४०कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः
कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि
१४.१९.४१जीवः कायं वहति चेच्चेष्टयानः कलेवरम्
किंवर्णं कीदृशं चैव निवेशयति वै मनः
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ
१४.१९.४२इति संपरिपृष्टोऽहं तेन विप्रेण माधव
प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम
१४.१९.४३यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत्
तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत्
१४.१९.४४एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित्
१४.१९.४५न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः
मनसैव प्रदीपेन महानात्मनि दृश्यते
१४.१९.४६सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम्
जीवो निष्क्रान्तमात्मानं शरीरात्संप्रपश्यति
१४.१९.४७स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम्
आत्मानमालोकयति मनसा प्रहसन्निव
१४.१९.४८इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम
आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम्
१४.१९.४९इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः
१४.१९.५०वासुदेव उवाच
१४.१९.५१इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुंगवः
मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत
१४.१९.५२कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि
१४.१९.५३नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः
नरेणाकृतसंज्ञेन विदग्धेनाकृतात्मना
१४.१९.५४सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ
कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित्
१४.१९.५५न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना
१४.१९.५६क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः
न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम्
१४.१९.५७परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम्
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी
१४.१९.५८एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्
१४.१९.५९किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः
१४.१९.६०हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने
सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ
१४.१९.६१श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव
यः परित्यजते मर्त्यो लोकतन्त्रमसारवत्
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात्
१४.१९.६२एतावदेव वक्तव्यं नातो भूयोऽस्ति किंचन
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते