१४.३२.१ब्राह्मण उवाच
१४.३२.२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ब्राह्मणस्य च संवादं जनकस्य च भामिनि
१४.३२.३ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत्
१४.३२.४इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः
१४.३२.५सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते
१४.३२.६इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना
मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत
१४.३२.७तमासीनं ध्यायमानं राजानममितौजसम्
कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः
१४.३२.८समाश्वास्य ततो राजा व्यपेते कश्मले तदा
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत्
१४.३२.९पितृपैतामहे राज्ये वश्ये जनपदे सति
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम्
१४.३२.१०नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया
१४.३२.११नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत्
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता
१४.३२.१२तया न विषयं मन्ये सर्वो वा विषयो मम
आत्मापि चायं न मम सर्वा वा पृथिवी मम
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते
१४.३२.१३पितृपैतामहे राज्ये वश्ये जनपदे सति
ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया
१४.३२.१४कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव
नावैषि विषयं येन सर्वो वा विषयस्तव
१४.३२.१५जनक उवाच
१४.३२.१६अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु
नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत्
१४.३२.१७कस्येदमिति कस्य स्वमिति वेदवचस्तथा
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत्
१४.३२.१८एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया
शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम
१४.३२.१९नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा
१४.३२.२०नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा
१४.३२.२१नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा
१४.३२.२२नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा
१४.३२.२३नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि
तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा
१४.३२.२४नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा
१४.३२.२५देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह
इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै
१४.३२.२६ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम्
१४.३२.२७त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः
सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः