१४. अश्वमेधिकपर्व
१४.३९.१ब्रह्मोवाच

१४.३९.२नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः
अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा

१४.३९.३अन्योन्यमनुषज्जन्ते अन्योन्यं चानुजीविनः
अन्योन्यापाश्रयाः सर्वे तथान्योन्यानुवर्तिनः

१४.३९.४यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशयः
यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते

१४.३९.५संहत्य कुर्वते यात्रां सहिताः संघचारिणः
संघातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः

१४.३९.६उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम्
वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः

१४.३९.७व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत्
अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः

१४.३९.८उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत्
अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः

१४.३९.९उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत्
अल्पं तत्र रजो ज्ञेयं तमश्चाल्पतरं ततः

१४.३९.१०सत्त्वं वैकारिकं योनिरिन्द्रियाणां प्रकाशिका
न हि सत्त्वात्परो भावः कश्चिदन्यो विधीयते

१४.३९.११ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः
जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः

१४.३९.१२तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम्
इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः

१४.३९.१३दूरादपि हि दृश्यन्ते सहिताः संघचारिणः
तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम

१४.३९.१४दृष्ट्वा चादित्यमुद्यन्तं कुचोराणां भयं भवेत्
अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः

१४.३९.१५आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः
परितापोऽध्वगानां च राजसो गुण उच्यते

१४.३९.१६प्राकाश्यं सत्त्वमादित्ये संतापो राजसो गुणः
उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु

१४.३९.१७एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास्त्रयः
पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा

१४.३९.१८स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः
राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः

१४.३९.१९अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते
मासार्धमासवर्षाणि ऋतवः संधयस्तथा

१४.३९.२०त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते
त्रिधा लोकास्त्रिधा वेदास्त्रिधा विद्यास्त्रिधा गतिः

१४.३९.२१भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि
प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः

१४.३९.२२यत्किंचिदिह वै लोके सर्वमेष्वेव तत्त्रिषु
त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यमेव तु
सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः

१४.३९.२३तमोऽव्यक्तं शिवं नित्यमजं योनिः सनातनः
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ

१४.३९.२४अनुद्रिक्तमनूनं च ह्यकम्पमचलं ध्रुवम्
सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम्
ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः

१४.३९.२५अव्यक्तनामानि गुणांश्च तत्त्वतो; यो वेद सर्वाणि गतीश्च केवलाः
विमुक्तदेहः प्रविभागतत्त्ववि;त्स मुच्यते सर्वगुणैर्निरामयः