१४.४०.१ब्रह्मोवाच
१४.४०.२अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः
आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते
१४.४०.३महानात्मा मतिर्विष्णुर्विश्वः शंभुश्च वीर्यवान्
बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः
१४.४०.४पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते
तं जानन्ब्राह्मणो विद्वान्न प्रमोहं निगच्छति
१४.४०.५सर्वतःपाणिपादश्च सर्वतोक्षिशिरोमुखः
सर्वतःश्रुतिमाँल्लोके सर्वं व्याप्य स तिष्ठति
१४.४०.६महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः
१४.४०.७तत्र बुद्धिमतां लोकाः संन्यासनिरताश्च ये
ध्यानिनो नित्ययोगाश्च सत्यसंधा जितेन्द्रियाः
१४.४०.८ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः
प्रसन्नमनसो धीरा निर्ममा निरहंकृताः
विमुक्ताः सर्व एवैते महत्त्वमुपयान्ति वै
१४.४०.९आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम्
स धीरः सर्वलोकेषु न मोहमधिगच्छति
विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः
१४.४०.१०एवं हि यो वेद गुहाशयं प्रभुं; नरः पुराणं पुरुषं विश्वरूपम्
हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति