१४. अश्वमेधिकपर्व
१४.४६.१ब्रह्मोवाच

१४.४६.२एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि
अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान्

१४.४६.३स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः
गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः

१४.४६.४गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन्
हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान्

१४.४६.५द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः
धारयीत सदा दण्डं बैल्वं पालाशमेव वा

१४.४६.६क्षौमं कार्पासिकं वापि मृगाजिनमथापि वा
सर्वं काषायरक्तं स्याद्वासो वापि द्विजस्य ह

१४.४६.७मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा
यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः

१४.४६.८पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम्
भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते

१४.४६.९एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः
न संसरति जातीषु परमं स्थानमाश्रितः

१४.४६.१०संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान्
ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत्

१४.४६.११चर्मवल्कलसंवीतः स्वयं प्रातरुपस्पृशेत्
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः

१४.४६.१२अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम्
फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन्

१४.४६.१३प्रवृत्तमुदकं वायुं सर्वं वानेयमा तृणात्
प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः

१४.४६.१४आमूलफलभिक्षाभिरर्चेदतिथिमागतम्
यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः

१४.४६.१५देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः
अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः

१४.४६.१६दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन्
जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः

१४.४६.१७त्यक्तदेहः सदा दक्षो वननित्यः समाहितः
एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः

१४.४६.१८गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः
य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत्

१४.४६.१९अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्
सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः

१४.४६.२०अयाचितमसंकॢप्तमुपपन्नं यदृच्छया
जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः

१४.४६.२१यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम्
धर्मलब्धं तथाश्नीयान्न काममनुवर्तयेत्

१४.४६.२२ग्रासादाच्छादनाच्चान्यन्न गृह्णीयात्कथंचन
यावदाहारयेत्तावत्प्रतिगृह्णीत नान्यथा

१४.४६.२३परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन
दैन्यभावाच्च भूतानां संविभज्य सदा बुधः

१४.४६.२४नाददीत परस्वानि न गृह्णीयादयाचितम्
न किंचिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः

१४.४६.२५मृदमापस्तथाश्मानं पत्रपुष्पफलानि च
असंवृतानि गृह्णीयात्प्रवृत्तानीह कार्यवान्

१४.४६.२६न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत्
न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः
श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत्

१४.४६.२७मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम्
कृत्वा वह्निं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने

१४.४६.२८वृत्ते शरावसंपाते भैक्ष्यं लिप्सेत मोक्षवित्
लाभे न च प्रहृष्येत नालाभे विमना भवेत्

१४.४६.२९मात्राशी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः
अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः

१४.४६.३०शुक्तान्यम्लानि तिक्तानि कषायकटुकानि च
नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम्

१४.४६.३१असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित्
न चान्यमनुभिक्षेत भिक्षमाणः कथंचन

१४.४६.३२न संनिकाशयेद्धर्मं विविक्ते विरजाश्चरेत्
शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा
प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम्

१४.४६.३३ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत्
अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम्

१४.४६.३४दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत्
संचयांश्च न कुर्वीत स्नेहवासं च वर्जयेत्

१४.४६.३५पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित्
उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा

१४.४६.३६अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च
अक्रोधश्चानसूया च दमो नित्यमपैशुनम्

१४.४६.३७अष्टास्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः
अपापमशठं वृत्तमजिह्मं नित्यमाचरेत्

१४.४६.३८आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च
लोकसंग्रहधर्मं च नैव कुर्यान्न कारयेत्

१४.४६.३९सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत्
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च

१४.४६.४०परं नोद्वेजयेत्कंचिन्न च कस्यचिदुद्विजेत्
विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते

१४.४६.४१अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत्
वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः

१४.४६.४२न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित्
न प्रत्यक्षं परोक्षं वा किंचिद्दुष्टं समाचरेत्

१४.४६.४३इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः
क्षीणेन्द्रियमनोबुद्धिर्निरीक्षेत निरिन्द्रियः

१४.४६.४४निर्द्वंद्वो निर्नमस्कारो निःस्वाहाकार एव च
निर्ममो निरहंकारो निर्योगक्षेम एव च

१४.४६.४५निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः
सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः

१४.४६.४६अपाणिपादपृष्ठं तमशिरस्कमनूदरम्
प्रहीणगुणकर्माणं केवलं विमलं स्थिरम्

१४.४६.४७अगन्धरसमस्पर्शमरूपाशब्दमेव च
अत्वगस्थ्यथ वामज्जममांसमपि चैव ह

१४.४६.४८निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा
सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः

१४.४६.४९न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः
वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः
यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता

१४.४६.५०तस्मादलिङ्गो धर्मज्ञो धर्मव्रतमनुव्रतः
गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत्

१४.४६.५१अमूढो मूढरूपेण चरेद्धर्ममदूषयन्
यथैनमवमन्येरन्परे सततमेव हि

१४.४६.५२तथावृत्तश्चरेद्धर्मं सतां वर्त्माविदूषयन्
यो ह्येवं वृत्तसंपन्नः स मुनिः श्रेष्ठ उच्यते

१४.४६.५३इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च
मनोबुद्धिरथात्मानमव्यक्तं पुरुषं तथा

१४.४६.५४सर्वमेतत्प्रसंख्याय सम्यक्संत्यज्य निर्मलः
ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः

१४.४६.५५एतदेवान्तवेलायां परिसंख्याय तत्त्ववित्
ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः

१४.४६.५६निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा
क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम्