१४.४५.१ब्रह्मोवाच
१४.४५.२बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम्
महाभूतारविष्कम्भं निमेषपरिवेष्टनम्
१४.४५.३जराशोकसमाविष्टं व्याधिव्यसनसंचरम्
देशकालविचारीदं श्रमव्यायामनिस्वनम्
१४.४५.४अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम्
सुखदुःखान्तसंक्लेशं क्षुत्पिपासावकीलनम्
१४.४५.५छायातपविलेखं च निमेषोन्मेषविह्वलम्
घोरमोहजनाकीर्णं वर्तमानमचेतनम्
१४.४५.६मासार्धमासगणितं विषमं लोकसंचरम्
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम्
१४.४५.७सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम्
स्वरविग्रहनाभीकं शोकसंघातवर्तनम्
१४.४५.८क्रियाकारणसंयुक्तं रागविस्तारमायतम्
लोभेप्सापरिसंख्यातं विविक्तज्ञानसंभवम्
१४.४५.९भयमोहपरीवारं भूतसंमोहकारकम्
आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम्
१४.४५.१०महदादिविशेषान्तमसक्तप्रभवाव्ययम्
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते
१४.४५.११एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम्
विसृजेत्संक्षिपेच्चापि बोधयेत्सामरं जगत्
१४.४५.१२कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति
१४.४५.१३विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिः
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम्
१४.४५.१४गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः
१४.४५.१५यः कश्चिदिह लोके च ह्यागमः संप्रकीर्तितः
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी
१४.४५.१६संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः
जातौ गुणविशिष्टायां समावर्तेत वेदवित्
१४.४५.१७स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह
१४.४५.१८देवतातिथिशिष्टाशी निरतो वेदकर्मसु
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि
१४.४५.१९न पाणिपादचपलो न नेत्रचपलो मुनिः
न च वागङ्गचपल इति शिष्टस्य गोचरः
१४.४५.२०नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः
नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत्
१४.४५.२१जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्
१४.४५.२२अधीत्याध्यापनं कुर्यात्तथा यजनयाजने
दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत्
१४.४५.२३त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः
१४.४५.२४अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु
१४.४५.२५तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित्
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः
१४.४५.२६सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः