१४.४८.१ब्रह्मोवाच
१४.४८.२केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं महत्
केचित्पुरुषमव्यक्तं केचित्परमनामयम्
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम्
१४.४८.३उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत्
आत्मानमुपसंगम्य सोऽमृतत्वाय कल्पते
१४.४८.४निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम्
१४.४८.५प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः
दशद्वादशभिर्वापि चतुर्विंशात्परं ततः
१४.४८.६एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति
अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते
१४.४८.७सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः
अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रयम्
न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः
१४.४८.८क्षमा धृतिरहिंसा च समता सत्यमार्जवम्
ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते
१४.४८.९एतेनैवानुमानेन मन्यन्तेऽथ मनीषिणः
सत्त्वं च पुरुषश्चैकस्तत्र नास्ति विचारणा
१४.४८.१०आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः
क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते
१४.४८.११पृथग्भूतस्ततो नित्यमित्येतदविचारितम्
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः
१४.४८.१२तथैवैकत्वनानात्वमिष्यते विदुषां नयः
मशकोदुम्बरे त्वैक्यं पृथक्त्वमपि दृश्यते
१४.४८.१३मत्स्यो यथान्यः स्यादप्सु संप्रयोगस्तथानयोः
संबन्धस्तोयबिन्दूनां पर्णे कोकनदस्य च
१४.४८.१४गुरुरुवाच
१४.४८.१५इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम्
पुनः संशयमापन्नाः पप्रच्छुर्द्विजसत्तमाः
१४.४८.१६ऋषय ऊचुः
१४.४८.१७किं स्विदेवेह धर्माणामनुष्ठेयतमं स्मृतम्
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम्
१४.४८.१८ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे
केचित्संशयितं सर्वं निःसंशयमथापरे
१४.४८.१९अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे
एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे
एकमेके पृथक्चान्ये बहुत्वमिति चापरे
१४.४८.२०मन्यन्ते ब्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः
१४.४८.२१अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे
आहारं केचिदिच्छन्ति केचिच्चानशने रताः
१४.४८.२२कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे
देशकालावुभौ केचिन्नैतदस्तीति चापरे
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान्
१४.४८.२३धनानि केचिदिच्छन्ति निर्धनत्वं तथापरे
उपास्यसाधनं त्वेके नैतदस्तीति चापरे
१४.४८.२४अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः
पुण्येन यशसेत्येके नैतदस्तीति चापरे
१४.४८.२५सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः
१४.४८.२६यज्ञमित्यपरे धीराः प्रदानमिति चापरे
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे
१४.४८.२७तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः
ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः
१४.४८.२८एवं व्युत्थापिते धर्मे बहुधा विप्रधावति
निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम
१४.४८.२९इदं श्रेय इदं श्रेय इत्येवं प्रस्थितो जनः
यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा
१४.४८.३०तत्र नो विहता प्रज्ञा मनश्च बहुलीकृतम्
एतदाख्यातुमिच्छामः श्रेयः किमिति सत्तम
१४.४८.३१अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति
सत्त्वक्षेत्रज्ञयोश्चैव संबन्धः केन हेतुना
१४.४८.३२एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान्