१४. अश्वमेधिकपर्व
१४.४९.१ब्रह्मोवाच

१४.४९.२हन्त वः संप्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम्

१४.४९.३अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम्
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम्

१४.४९.४ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चयदर्शिनः
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः

१४.४९.५हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः
लोभमोहसमायुक्तास्ते वै निरयगामिनः

१४.४९.६आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः
तेऽस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः

१४.४९.७कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः

१४.४९.८अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः

१४.४९.९विषयो विषयित्वं च संबन्धोऽयमिहोच्यते
विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः

१४.४९.१०व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा
भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम्
यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते

१४.४९.११अनित्यं द्वंद्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम्
निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः

१४.४९.१२समः संज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते
उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत्

१४.४९.१३सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः
एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः

१४.४९.१४द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा

१४.४९.१५यथा प्रदीपमादाय कश्चित्तमसि गच्छति
तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः

१४.४९.१६यावद्द्रव्यगुणस्तावत्प्रदीपः संप्रकाशते
क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति

१४.४९.१७व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः

१४.४९.१८सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति
चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते

१४.४९.१९एवं धर्मस्य विज्ञेयं संसाधनमुपायतः
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते

१४.४९.२०यथाध्वानमपाथेयः प्रपन्नो मानवः क्वचित्
क्लेशेन याति महता विनश्यत्यन्तरापि वा

१४.४९.२१तथा कर्मसु विज्ञेयं फलं भवति वा न वा
पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम्

१४.४९.२२यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः

१४.४९.२३तमेव च यथाध्वानं रथेनेहाशुगामिना
यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः

१४.४९.२४उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम्
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम्

१४.४९.२५यावद्रथपथस्तावद्रथेन स तु गच्छति
क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति

१४.४९.२६एवं गच्छति मेधावी तत्त्वयोगविधानवित्
समाज्ञाय महाबुद्धिरुत्तरादुत्तरोत्तरम्

१४.४९.२७यथा महार्णवं घोरमप्लवः संप्रगाहते
बाहुभ्यामेव संमोहाद्वधं चर्च्छत्यसंशयम्

१४.४९.२८नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रया
अक्लान्तः सलिलं गाहेत्क्षिप्रं संतरति ध्रुवम्

१४.४९.२९तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः
व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ

१४.४९.३०स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा
ममत्वेनाभिभूतः स तत्रैव परिवर्तते

१४.४९.३१नावं न शक्यमारुह्य स्थले विपरिवर्तितुम्
तथैव रथमारुह्य नाप्सु चर्या विधीयते

१४.४९.३२एवं कर्म कृतं चित्रं विषयस्थं पृथक्पृथक्
यथा कर्म कृतं लोके तथा तदुपपद्यते

१४.४९.३३यन्नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत्
मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते

१४.४९.३४तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान्
महतः प्रधानभूतस्य गुणोऽहंकार एव च

१४.४९.३५अहंकारप्रधानस्य महाभूतकृतो गुणः
पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः

१४.४९.३६बीजधर्मं यथाव्यक्तं तथैव प्रसवात्मकम्
बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम्

१४.४९.३७बीजधर्मा त्वहंकारः प्रसवश्च पुनः पुनः
बीजप्रसवधर्माणि महाभूतानि पञ्च वै

१४.४९.३८बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते
विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम्

१४.४९.३९तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः

१४.४९.४०पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसंकुला
सर्वभूतकरी देवी शुभाशुभनिदर्शना

१४.४९.४१शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः
एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः

१४.४९.४२पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान्

१४.४९.४३इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत

१४.४९.४४शब्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः

१४.४९.४५मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः

१४.४९.४६शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम्

१४.४९.४७शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा
ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम्

१४.४९.४८एवं द्वादशविस्तारं तेजसो रूपमुच्यते
विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः

१४.४९.४९शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते
वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः

१४.४९.५०उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः

१४.४९.५१एवं द्वादशविस्तारो वायव्यो गुण उच्यते
विधिवद्ब्रह्मणैः सिद्धैर्धर्मज्ञैस्तत्त्वदर्शिभिः

१४.४९.५२तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः
तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून्गुणान्

१४.४९.५३षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा
अतः परं तु विज्ञेयो निषादो धैवतस्तथा

१४.४९.५४इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान्
एवं बहुविधो ज्ञेयः शब्द आकाशसंभवः

१४.४९.५५आकाशमुत्तमं भूतमहंकारस्ततः परम्
अहंकारात्परा बुद्धिर्बुद्धेरात्मा ततः परः

१४.४९.५६तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः
परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते