१४.५.१युधिष्ठिर उवाच
१४.५.२कथंवीर्यः समभवत्स राजा वदतां वरः
कथं च जातरूपेण समयुज्यत स द्विज
१४.५.३क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते
कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन
१४.५.४व्यास उवाच
१४.५.५असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः
अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम्
१४.५.६तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः
बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः
१४.५.७तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम्
बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः
१४.५.८स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत
अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत्
१४.५.९वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम्
पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम्
१४.५.१०याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः
१४.५.११वाहनं यस्य योधाश्च द्रव्याणि विविधानि च
ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः
१४.५.१२स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः
संजीव्य कालमिष्टं च सशरीरो दिवं गतः
१४.५.१३बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित्
अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम्
विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः
१४.५.१४तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान्
पुत्रस्तमनुरक्ताभूत्पृथिवी सागराम्बरा
१४.५.१५स्पर्धते सततं स स्म देवराजेन पार्थिवः
वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन
१४.५.१६शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः
यतमानोऽपि यं शक्रो न विशेषयति स्म ह
१४.५.१७सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम्
उवाचेदं वचो देवैः सहितो हरिवाहनः
१४.५.१८बृहस्पते मरुत्तस्य मा स्म कार्षीः कथंचन
दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम्
१४.५.१९अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः
१४.५.२०कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम्
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया
१४.५.२१मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम्
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम्
१४.५.२२एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः
मुहूर्तमिव संचिन्त्य देवराजानमब्रवीत्
१४.५.२३त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च
१४.५.२४त्वमाजहर्थ देवानामेको वीर श्रियं पराम्
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन
१४.५.२५पौरोहित्यं कथं कृत्वा तव देवगणेश्वर
याजयेयमहं मर्त्यं मरुत्तं पाकशासन
१४.५.२६समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित्
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम
१४.५.२७हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी
भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि
१४.५.२८बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा