१४. अश्वमेधिकपर्व
१४.५०.१ब्रह्मोवाच

१४.५०.२भूतानामथ पञ्चानां यथैषामीश्वरं मनः
नियमे च विसर्गे च भूतात्मा मन एव च

१४.५०.३अधिष्ठाता मनो नित्यं भूतानां महतां तथा
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते

१४.५०.४इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः
इन्द्रियाणि मनो बुद्धिं क्षेत्रज्ञो युञ्जते सदा

१४.५०.५महाभूतसमायुक्तं बुद्धिसंयमनं रथम्
तमारुह्य स भूतात्मा समन्तात्परिधावति

१४.५०.६इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च
बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः

१४.५०.७एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम्
स धीरः सर्वलोकेषु न मोहमधिगच्छति

१४.५०.८अव्यक्तादि विशेषान्तं त्रसस्थावरसंकुलम्
चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम्

१४.५०.९नदीपर्वतजालैश्च सर्वतः परिभूषितम्
विविधाभिस्तथाद्भिश्च सततं समलंकृतम्

१४.५०.१०आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः
एतद्ब्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित्

१४.५०.११लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च
तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः
गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः

१४.५०.१२देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात्

१४.५०.१३एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा

१४.५०.१४विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति
भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्प्रजापतिम्

१४.५०.१५प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः
तथैव वेदानृषयस्तपसा प्रतिपेदिरे

१४.५०.१६तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः

१४.५०.१७ओषधान्यगदादीनी नानाविद्याश्च सर्वशः
तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम्

१४.५०.१८यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम्
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्

१४.५०.१९सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः

१४.५०.२०मनुष्याः पितरो देवाः पशवो मृगपक्षिणः
यानि चान्यानि भूतानि त्रसानि स्थावराणि च

१४.५०.२१तपःपरायणा नित्यं सिध्यन्ते तपसा सदा
तथैव तपसा देवा महाभागा दिवं गताः

१४.५०.२२आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः
अहंकारसमायुक्तास्ते सकाशे प्रजापतेः

१४.५०.२३ध्यानयोगेन शुद्धेन निर्ममा निरहंकृताः
प्राप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम्

१४.५०.२४ध्यानयोगादुपागम्य प्रसन्नमतयः सदा
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवत्तया

१४.५०.२५ध्यानयोगादुपागम्य निर्ममा निरहंकृताः
अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम्

१४.५०.२६अव्यक्तादेव संभूतः समयज्ञो गतः पुनः
तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम्

१४.५०.२७विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित्

१४.५०.२८चित्तं चित्तादुपागम्य मुनिरासीत संयतः
यच्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम्

१४.५०.२९अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम्
निबोधत यथा हीदं गुणैर्लक्षणमित्युत

१४.५०.३०द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्

१४.५०.३१कर्म केचित्प्रशंसन्ति मन्दबुद्धितरा नराः
ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते

१४.५०.३२कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः
पुरुषं सृजतेऽविद्या अग्राह्यममृताशिनम्

१४.५०.३३तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः

१४.५०.३४अपूर्वममृतं नित्यं य एनमविचारिणम्
य एनं विन्दतेऽऽत्मानमग्राह्यममृताशिनम्
अग्राह्योऽमृतो भवति य एभिः कारणैर्ध्रुवः

१४.५०.३५अपोह्य सर्वसंकल्पान्संयम्यात्मानमात्मनि
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते

१४.५०.३६प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात्
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम्

१४.५०.३७गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः

१४.५०.३८एषा गतिरसक्तानामेष धर्मः सनातनः
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम्

१४.५०.३९समेन सर्वभूतेषु निःस्पृहेण निराशिषा
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना

१४.५०.४०एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ

१४.५०.४१गुरुरुवाच

१४.५०.४२इत्युक्तास्ते तु मुनयो ब्रह्मणा गुरुणा तथा
कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन्

१४.५०.४३त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः
सम्यगाचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि

१४.५०.४४वासुदेव उवाच

१४.५०.४५इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम्
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान्

१४.५०.४६कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति

१४.५०.४७अर्जुन उवाच

१४.५०.४८को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन
श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो

१४.५०.४९वासुदेव उवाच

१४.५०.५०अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे
त्वत्प्रीत्या गुह्यमेतच्च कथितं मे धनंजय

१४.५०.५१मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत

१४.५०.५२ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्कुरुनन्दन
सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम्

१४.५०.५३पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते
मया तव महाबाहो तस्मादत्र मनः कुरु

१४.५०.५४मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो
तमहं द्रष्टुमिच्छामि संमते तव फल्गुन

१४.५०.५५वैशंपायन उवाच

१४.५०.५६इत्युक्तवचनं कृष्णं प्रत्युवाच धनंजयः
गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै

१४.५०.५७समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम्
समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुमर्हसि