१४. अश्वमेधिकपर्व
१४.५२.१वैशंपायन उवाच

१४.५२.२तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः
परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः

१४.५२.३पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः
आ चक्षुर्विषयाच्चैनं ददर्श च पुनः पुनः

१४.५२.४कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम्
संजहार तदा दृष्टिं कृष्णश्चाप्यपराजितः

१४.५२.५तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु

१४.५२.६वायुर्वेगेन महता रथस्य पुरतो ववौ
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम्

१४.५२.७ववर्ष वासवश्चापि तोयं शुचि सुगन्धि च
दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः

१४.५२.८स प्रयातो महाबाहुः समेषु मरुधन्वसु
ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम्

१४.५२.९स तं संपूज्य तेजस्वी मुनिं पृथुललोचनः
पूजितस्तेन च तदा पर्यपृच्छदनामयम्

१४.५२.१०स पृष्टः कुशलं तेन संपूज्य मधुसूदनम्
उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम्

१४.५२.११कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत्
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि

१४.५२.१२अभिसंधाय तान्वीरानुपावृत्तोऽसि केशव
संबन्धिनः सुदयितान्सततं वृष्णिपुंगव

१४.५२.१३कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः
लोकेषु विहरिष्यन्ति त्वया सह परंतप

१४.५२.१४स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम्
कौरवेषु प्रशान्तेषु त्वया नाथेन माधव

१४.५२.१५या मे संभावना तात त्वयि नित्यमवर्तत
अपि सा सफला कृष्ण कृता ते भरतान्प्रति

१४.५२.१६वासुदेव उवाच

१४.५२.१७कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रति
न चाशक्यन्त संधातुं तेऽधर्मरुचयो मया

१४.५२.१८ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः
न दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा
महर्षे विदितं नूनं सर्वमेतत्तवानघ

१४.५२.१९तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च
ततो यमक्षयं जग्मुः समासाद्येतरेतरम्

१४.५२.२०पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः

१४.५२.२१इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः
उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने

१४.५२.२२यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः
संबन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम्

१४.५२.२३न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन

१४.५२.२४त्वया हि शक्तेन सता मिथ्याचारेण माधव
उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः

१४.५२.२५वासुदेव उवाच

१४.५२.२६शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव

१४.५२.२७श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वै
न च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान्

१४.५२.२८न च ते तपसो नाशमिच्छामि जपतां वर
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः

१४.५२.२९कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम
दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम्