१४.५३.१उत्तङ्क उवाच
१४.५३.२ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम्
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन
१४.५३.३वासुदेव उवाच
१४.५३.४तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान्
तथा रुद्रान्वसूंश्चापि विद्धि मत्प्रभवान्द्विज
१४.५३.५मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम्
स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः
१४.५३.६तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान्
गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज
१४.५३.७सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम्
१४.५३.८ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने
दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम्
१४.५३.९असच्च सदसच्चैव यद्विश्वं सदसतः परम्
ततः परं नास्ति चैव देवदेवात्सनातनात्
१४.५३.१०ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह
यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे
१४.५३.११होतारमपि हव्यं च विद्धि मां भृगुनन्दन
अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम्
१४.५३.१२उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे
प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः
१४.५३.१३विद्धि मह्यं सुतं धर्ममग्रजं द्विजसत्तम
मानसं दयितं विप्र सर्वभूतदयात्मकम्
१४.५३.१४तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः
बह्वीः संसरमाणो वै योनीर्हि द्विजसत्तम
१४.५३.१५धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव
१४.५३.१६अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च
१४.५३.१७अधर्मे वर्तमानानां सर्वेषामहमप्युत
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया
१४.५३.१८यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन
तदाहं देववत्सर्वमाचरामि न संशयः
१४.५३.१९यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन
तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव
१४.५३.२०नागयोनौ यदा चैव तदा वर्तामि नागवत्
यक्षराक्षसयोनीश्च यथावद्विचराम्यहम्
१४.५३.२१मानुष्ये वर्तमाने तु कृपणं याचिता मया
न च ते जातसंमोहा वचो गृह्णन्ति मे हितम्
१४.५३.२२भयं च महदुद्दिश्य त्रासिताः कुरवो मया
क्रुद्धेव भूत्वा च पुनर्यथावदनुदर्शिताः
१४.५३.२३तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः
१४.५३.२४लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि