१४.५९.१वसुदेव उवाच
१४.५९.२श्रुतवानस्मि वार्ष्णेय संग्रामं परमाद्भुतम्
नराणां वदतां पुत्र कथोद्घातेषु नित्यशः
१४.५९.३त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज
तस्मात्प्रब्रूहि संग्रामं याथातथ्येन मेऽनघ
१४.५९.४यथा तदभवद्युद्धं पाण्डवानां महात्मनाम्
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम्
१४.५९.५अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः
नानावेषाकृतिमतां नानादेशनिवासिनाम्
१४.५९.६इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके
शशंस कुरुवीराणां संग्रामे निधनं यथा
१४.५९.७वासुदेव उवाच
१४.५९.८अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम्
बहुलत्वान्न संख्यातुं शक्यान्यब्दशतैरपि
१४.५९.९प्राधान्यतस्तु गदतः समासेनैव मे शृणु
कर्माणि पृथिवीशानां यथावदमरद्युते
१४.५९.१०भीष्मः सेनापतिरभूदेकादशचमूपतिः
कौरव्यः कौरवेयाणां देवानामिव वासवः
१४.५९.११शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः
बभूव रक्षितो धीमान्धीमता सव्यसाचिना
१४.५९.१२तेषां तदभवद्युद्धं दशाहानि महात्मनाम्
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम्
१४.५९.१३ततः शिखण्डी गाङ्गेयमयुध्यन्तं महाहवे
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना
१४.५९.१४अकरोत्स ततः कालं शरतल्पगतो मुनिः
अयनं दक्षिणं हित्वा संप्राप्ते चोत्तरायणे
१४.५९.१५ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव
१४.५९.१६अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः
संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः
१४.५९.१७धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित्
गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा
१४.५९.१८पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत्
१४.५९.१९तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसंगरे
नानादिगागता वीराः प्रायशो निधनं गताः
१४.५९.२०दिनानि पञ्च तद्युद्धमभूत्परमदारुणम्
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः
१४.५९.२१ततः सेनापतिरभूत्कर्णो दौर्योधने बले
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे
१४.५९.२२तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः
१४.५९.२३ततः पार्थं समासाद्य पतंग इव पावकम्
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे
१४.५९.२४हते कर्णे तु कौरव्या निरुत्साहा हतौजसः
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन्
१४.५९.२५हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम्
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन्
१४.५९.२६अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः
तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम्
१४.५९.२७हते शल्ये तु शकुनिं सहदेवो महामनाः
आहर्तारं कलेस्तस्य जघानामितविक्रमः
१४.५९.२८निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः
१४.५९.२९तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान्
ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम्
१४.५९.३०ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम्
उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः
१४.५९.३१विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः
१४.५९.३२ततः स निहतो राजा धार्तराष्ट्रो महामृधे
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम्
१४.५९.३३ततस्तत्पाण्डवं सैन्यं संसुप्तं शिबिरे निशि
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता
१४.५९.३४हतपुत्रा हतबला हतमित्रा मया सह
युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः
१४.५९.३५सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत
युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात्
१४.५९.३६निहते कौरवेन्द्रे च सानुबन्धे सुयोधने
विदुरः संजयश्चैव धर्मराजमुपस्थितौ
१४.५९.३७एवं तदभवद्युद्धमहान्यष्टादश प्रभो
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन्
१४.५९.३८वैशंपायन उवाच
१४.५९.३९शृण्वतां तु महाराज कथां तां रोमहर्षणीम्
दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा