१४.५८.१जनमेजय उवाच
१४.५८.२उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः
१४.५८.३वैशंपायन उवाच
१४.५८.४दत्त्वा वरमुत्तङ्काय प्रायात्सात्यकिना सह
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः
१४.५८.५सरांसि च नदीश्चैव वनानि विविधानि च
अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम्
१४.५८.६वर्तमाने महाराज महे रैवतकस्य च
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा
१४.५८.७अलंकृतस्तु स गिरिर्नानारूपविचित्रितैः
बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ
१४.५८.८काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च
वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः
१४.५८.९दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह
१४.५८.१०पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः
पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत्
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव
१४.५८.११मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत
गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः
१४.५८.१२प्रमत्तमत्तसंमत्तक्ष्वेडितोत्कृष्टसंकुला
तथा किलकिलाशब्दैर्भूरभूत्सुमनोहरा
१४.५८.१३विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान्
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान्
१४.५८.१४सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम्
बभौ परमकल्याणो महस्तस्य महागिरेः
१४.५८.१५पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः
विहारो वृष्णिवीराणां महे रैवतकस्य ह
स नगो वेश्मसंकीर्णो देवलोक इवाबभौ
१४.५८.१६तदा च कृष्णसांनिध्यमासाद्य भरतर्षभ
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट्
१४.५८.१७ततः संपूज्यमानः स विवेश भवनं शुभम्
गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम्
१४.५८.१८विवेश च स हृष्टात्मा चिरकालप्रवासकः
कृत्वा नसुकरं कर्म दानवेष्विव वासवः
१४.५८.१९उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा
अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम्
१४.५८.२०स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा
अभ्यवादयत प्रीतः पितरं मातरं तथा
१४.५८.२१ताभ्यां च संपरिष्वक्तः सान्त्वितश्च महाभुजः
उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः
१४.५८.२२स विश्रान्तो महातेजाः कृतपादावसेचनः
कथयामास तं कृष्णः पृष्टः पित्रा महाहवम्