१४.६४.१ब्राह्मणा ऊचुः
१४.६४.२क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः
कृत्वोपहारं नृपते ततः स्वार्थे यतामहे
१४.६४.३वैशंपायन उवाच
१४.६४.४श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः
गिरीशस्य यथान्यायमुपहारमुपाहरत्
१४.६४.५आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन ह
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा
१४.६४.६स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम्
१४.६४.७सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि
सर्वं स्विष्टकृतं कृत्वा विधिवद्वेदपारगः
किंकराणां ततः पश्चाच्चकार बलिमुत्तमम्
१४.६४.८यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह
तथान्येषां च यक्षाणां भूताधिपतयश्च ये
१४.६४.९कृसरेण समांसेन निवापैस्तिलसंयुतैः
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव
१४.६४.१०कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति
१४.६४.११पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च
१४.६४.१२शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः
अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान्
१४.६४.१३तेषां पुण्याहघोषेण तेजसा समवस्थितः
प्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम्
१४.६४.१४ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान्
१४.६४.१५बहूनि च विचित्राणि भाजनानि सहस्रशः
उद्धारयामास तदा धर्मराजो युधिष्ठिरः
१४.६४.१६तेषां लक्षणमप्यासीन्महान्करपुटस्तथा
त्रिलक्षं भाजनं राजंस्तुलार्धमभवन्नृप
१४.६४.१७वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशां पते
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः
१४.६४.१८वारणाश्च महाराज सहस्रशतसंमिताः
शकटानि रथाश्चैव तावदेव करेणवः
खराणां पुरुषाणां च परिसंख्या न विद्यते
१४.६४.१९एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम्
१४.६४.२०एतेष्वाधाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः
महादेवं प्रति ययौ पुरं नागाह्वयं प्रति
१४.६४.२१द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम्
गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः
१४.६४.२२सा पुराभिमुखी राजञ्जगाम महती चमूः
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान्