१४.६५.१वैशंपायन उवाच
१४.६५.२एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान्
उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम्
१४.६५.३समयं वाजिमेधस्य विदित्वा पुरुषर्षभः
यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति
१४.६५.४रौक्मिणेयेन सहितो युयुधानेन चैव ह
चारुदेष्णेन साम्बेन गदेन कृतवर्मणा
१४.६५.५सारणेन च वीरेण निशठेनोल्मुकेन च
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा
१४.६५.६द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः
१४.६५.७तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः
१४.६५.८तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः
विदुरेण महातेजास्तथैव च युयुत्सुना
१४.६५.९वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय
जज्ञे तव पिता राजन्परिक्षित्परवीरहा
१४.६५.१०स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः
१४.६५.११हृष्टानां सिंहनादेन जनानां तत्र निस्वनः
आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत्
१४.६५.१२ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः
१४.६५.१३ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम्
क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः
१४.६५.१४पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम्
सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप
१४.६५.१५ततः कृष्णं समासाद्य कुन्ती राजसुता तदा
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा
१४.६५.१६वासुदेव महाबाहो सुप्रजा देवकी त्वया
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम्
१४.६५.१७यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव
१४.६५.१८त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन
अहं संजीवयिष्यामि मृतं जातमिति प्रभो
१४.६५.१९सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव
१४.६५.२०धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा
सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि
१४.६५.२१अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे
१४.६५.२२अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन
१४.६५.२३उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदन
अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः
१४.६५.२४अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति
१४.६५.२५गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति
अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम्
१४.६५.२६इत्येतत्प्रणयात्तात सौभद्रः परवीरहा
कथयामास दुर्धर्षस्तथा चैतन्न संशयः
१४.६५.२७तास्त्वां वयं प्रणम्येह याचामो मधुसूदन
कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम्
१४.६५.२८एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना
उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि
१४.६५.२९अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः
स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो
१४.६५.३०एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः
भूमौ निपतितां चैनां सान्त्वयामास भारत