१४. अश्वमेधिकपर्व
१४.७२.१वैशंपायन उवाच

१४.७२.२दीक्षाकाले तु संप्राप्ते ततस्ते सुमहर्त्विजः
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम्

१४.७२.३कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत

१४.७२.४हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा

१४.७२.५स राजा धर्मजो राजन्दीक्षितो विबभौ तदा
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः

१४.७२.६कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे

१४.७२.७तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते
बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः

१४.७२.८श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयः
विधिवत्पृथिवीपाल धर्मराजस्य शासनात्

१४.७२.९विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान्
तमश्वं पृथिवीपाल मुदा युक्तः ससार ह

१४.७२.१०आकुमारं तदा राजन्नागमत्तत्पुरं विभो
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम्

१४.७२.११तेषामन्योन्यसंमर्दादूष्मेव समजायत
दिदृक्षूणां हयं तं च तं चैव हयसारिणम्

१४.७२.१२ततः शब्दो महाराज दशाशाः प्रतिपूरयन्
बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनंजयम्

१४.७२.१३एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान्
यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम्

१४.७२.१४एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत

१४.७२.१५अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन्
नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते

१४.७२.१६एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः
स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम्
निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन्

१४.७२.१७एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ
शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः

१४.७२.१८याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः

१४.७२.१९ब्राह्मणाश्च महीपाल बहवो वेदपारगाः
अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च

१४.७२.२०पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा
चचार स महाराज यथादेशं स सत्तम

१४.७२.२१तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च

१४.७२.२२स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम
ससारोत्तरतः पूर्वं तन्निबोध महीपते

१४.७२.२३अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः
शनैस्तदा परिययौ श्वेताश्वश्च महारथः

१४.७२.२४तत्र संकलना नास्ति राज्ञामयुतशस्तदा
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः

१४.७२.२५किराता विकृता राजन्बहवोऽसिधनुर्धराः
म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे

१४.७२.२६आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः

१४.७२.२७एवं युद्धानि वृत्तानि तत्र तत्र महीपते
अर्जुनस्य महीपालैर्नानादेशनिवासिभिः

१४.७२.२८यानि तूभयतो राजन्प्रतप्तानि महान्ति च
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ