१४. अश्वमेधिकपर्व
१४.७३.१वैशंपायन उवाच

१४.७३.२त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः

१४.७३.३ते समाज्ञाय संप्राप्तं यज्ञियं तुरगोत्तमम्
विषयान्ते ततो वीरा दंशिताः पर्यवारयन्

१४.७३.४रथिनो बद्धतूणीराः सदश्वैः समलंकृतैः
परिवार्य हयं राजन्ग्रहीतुं संप्रचक्रमुः

१४.७३.५ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम्
वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः

१४.७३.६तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा
तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत्

१४.७३.७अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः

१४.७३.८स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः
हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति

१४.७३.९स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः
तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते

१४.७३.१०ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे
वितत्य शरजालेन प्रजहास धनंजयः

१४.७३.११ततस्ते रथघोषेण खुरनेमिस्वनेन च
पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन्

१४.७३.१२सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम्
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन्

१४.७३.१३तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः
मुमुचुः शरवर्षाणि धनंजयवधैषिणः

१४.७३.१४स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान्
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा

१४.७३.१५केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा
युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना

१४.७३.१६तमापतन्तं संप्रेक्ष्य केतुवर्माणमाहवे
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा

१४.७३.१७केतुवर्मण्यभिहते धृतवर्मा महारथः
रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत्

१४.७३.१८तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान्
गुडाकेशो महातेजा बालस्य धृतवर्मणः

१४.७३.१९न संदधानं ददृशे नाददानं च तं तदा
किरन्तमेव स शरान्ददृशे पाकशासनिः

१४.७३.२०स तु तं पूजयामास धृतवर्माणमाहवे
मनसा स मुहूर्तं वै रणे समभिहर्षयन्

१४.७३.२१तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव
प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत्

१४.७३.२२स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा
धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा

१४.७३.२३स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम्
मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले

१४.७३.२४धनुषः पततस्तस्य सव्यसाचिकराद्विभो
इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम

१४.७३.२५तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव
जहास सस्वनं हासं धृतवर्मा महाहवे

१४.७३.२६ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात्
धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च

१४.७३.२७ततो हलहलाशब्दो दिवस्पृगभवत्तदा
नानाविधानां भूतानां तत्कर्मातीव शंसताम्

१४.७३.२८ततः संप्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम्
जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन्

१४.७३.२९अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः
परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनंजयः

१४.७३.३०ततो योधाञ्जघानाशु तेषां स दश चाष्ट च
महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः

१४.७३.३१तांस्तु प्रभग्नान्संप्रेक्ष्य त्वरमाणो धनंजयः
शरैराशीविषाकारैर्जघान स्वनवद्धसन्

१४.७३.३२ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः
दिशो विदुद्रुवुः सर्वा धनंजयशरार्दिताः

१४.७३.३३त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम्
तव स्म किंकराः सर्वे सर्वे च वशगास्तव

१४.७३.३४आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान्
करिष्यामः प्रियं सर्वं तव कौरवनन्दन

१४.७३.३५एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा
जीवितं रक्षत नृपाः शासनं गृह्यतामिति