१४.७७.१वैशंपायन उवाच
१४.७७.२ततो गाण्डीवभृच्छूरो युद्धाय समवस्थितः
विबभौ युधि दुर्धर्षो हिमवानचलो यथा
१४.७७.३ततः सैन्धवयोधास्ते पुनरेव व्यवस्थिताः
विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत
१४.७७.४तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान्
ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा
१४.७७.५युध्यध्वं परया शक्त्या यतध्वं च वधे मम
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम्
१४.७७.६एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम्
तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः
१४.७७.७एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत
१४.७७.८न हन्तव्या रणे तात क्षत्रिया विजिगीषवः
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना
चिन्तयामास च तदा फल्गुनः पुरुषर्षभः
१४.७७.९इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति
कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम्
१४.७७.१०न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत्
इति संचिन्त्य स तदा भ्रातुः प्रियहिते रतः
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान्
१४.७७.११बालान्स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान्
यश्च वक्ष्यति संग्रामे तवास्मीति पराजितः
१४.७७.१२एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः
अतोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः
१४.७७.१३एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुंगवः
अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः
१४.७७.१४ततः शतसहस्राणि शराणां नतपर्वणाम्
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि
१४.७७.१५स तानापततः क्रूरानाशीविषविषोपमान्
चिच्छेद निशितैर्बाणैरन्तरैव धनंजयः
१४.७७.१६छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान्
एकैकमेष दशभिर्बिभेद समरे शरैः
१४.७७.१७ततः प्रासांश्च शक्तीश्च पुनरेव धनंजये
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः
१४.७७.१८तेषां किरीटी संकल्पं मोघं चक्रे महामनाः
सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः
१४.७७.१९तथैवापततां तेषां योधानां जयगृद्धिनाम्
शिरांसि पातयामास भल्लैः संनतपर्वभिः
१४.७७.२०तेषां प्रद्रवतां चैव पुनरेव च धावताम्
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः
१४.७७.२१ते वध्यमानास्तु तदा पार्थेनामिततेजसा
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम्
१४.७७.२२ततस्ते फल्गुनेनाजौ शरैः संनतपर्वभिः
कृता विसंज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः
१४.७७.२३तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा
दुःशला बालमादाय नप्तारं प्रययौ तदा
सुरथस्य सुतं वीरं रथेनानागसं तदा
१४.७७.२४शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम्
सा धनंजयमासाद्य मुमोचार्तस्वरं तदा
धनंजयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः
१४.७७.२५समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा
प्राह किं करवाणीति सा च तं वाक्यमब्रवीत्
१४.७७.२६एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः
अभिवादयते वीर तं पश्य पुरुषर्षभ
१४.७७.२७इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत्
१४.७७.२८पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता
पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह
१४.७७.२९स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम्
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय
१४.७७.३०प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ
विषादार्तः पपातोर्व्यां ममार च ममात्मजः
१४.७७.३१तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी
१४.७७.३२इत्युक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम्
१४.७७.३३स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च
कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्वह
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम्
१४.७७.३४अभिमन्योर्यथा जातः परिक्षित्परवीरहा
तथायं सुरथाज्जातो मम पौत्रो महाभुज
१४.७७.३५तमादाय नरव्याघ्र संप्राप्तास्मि तवान्तिकम्
शमार्थं सर्वयोधानां शृणु चेदं वचो मम
१४.७७.३६आगतोऽयं महाबाहो तस्य मन्दस्य पौत्रकः
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि
१४.७७.३७एष प्रसाद्य शिरसा मया सार्धमरिंदम
याचते त्वां महाबाहो शमं गच्छ धनंजय
१४.७७.३८बालस्य हतबन्धोश्च पार्थ किंचिदजानतः
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः
१४.७७.३९तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम्
आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि
१४.७७.४०एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम्
प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन्
१४.७७.४१धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम्
यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम्
१४.७७.४२इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति
१४.७७.४३दुःशला चापि तान्योधान्निवार्य महतो रणात्
संपूज्य पार्थं प्रययौ गृहान्प्रति शुभानना
१४.७७.४४ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः
पुनरेवान्वधावत्स तं हयं कामचारिणम्
१४.७७.४५ससार यज्ञियं वीरो विधिवत्स विशां पते
तारामृगमिवाकाशे देवदेवः पिनाकधृक्
१४.७७.४६स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम्
विचचार यथाकामं कर्म पार्थस्य वर्धयन्
१४.७७.४७क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ
मणिपूरपतेर्देशमुपायात्सहपाण्डवः