१४. अश्वमेधिकपर्व
१४.८०.१वैशंपायन उवाच

१४.८०.२तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा
उपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती

१४.८०.३ततः संज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः
मातरं तामथालोक्य रणभूमावथाब्रवीत्

१४.८०.४इतो दुःखतरं किं नु यन्मे माता सुखैधिता
भूमौ निपतितं वीरमनुशेते मृतं पतिम्

१४.८०.५निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम्
मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत

१४.८०.६अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम्

१४.८०.७दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते
यत्र नाहं न मे माता विप्रयुज्येत जीवितात्

१४.८०.८अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि
व्यपविद्धं हतस्येह मया पुत्रेण पश्यत

१४.८०.९भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि
शयानं वीरशयने मया पुत्रेण पातितम्

१४.८०.१०ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः
कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः

१४.८०.११व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे
सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे

१४.८०.१२दुश्चरा द्वादश समा हत्वा पितरमद्य वै
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा

१४.८०.१३शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम

१४.८०.१४पश्य नागोत्तमसुते भर्तारं निहतं मया
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम्

१४.८०.१५सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम्
न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे

१४.८०.१६सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि
भव प्रीतिमती देवि सत्येनात्मानमालभे

१४.८०.१७इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत्

१४.८०.१८शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे

१४.८०.१९यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम्

१४.८०.२०न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित्
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः

१४.८०.२१वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते
पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया

१४.८०.२२एष ह्येको महातेजाः पाण्डुपुत्रो धनंजयः
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः

१४.८०.२३इत्येवमुक्त्वा नृपते धनंजयसुतो नृपः
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः