१४.८१.१वैशंपायन उवाच
१४.८१.२प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा
पितृशोकसमाविष्टे सह मात्रा परंतप
१४.८१.३उलूपी चिन्तयामास तदा संजीवनं मणिम्
स चोपातिष्ठत तदा पन्नगानां परायणम्
१४.८१.४तं गृहीत्वा तु कौरव्य नागराजपतेः सुता
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत्
१४.८१.५उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः
अजेयः पुरुषैरेष देवैर्वापि सवासवैः
१४.८१.६मया तु मोहिनी नाम मायैषा संप्रयोजिता
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः
१४.८१.७जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरवः
संग्रामे युध्यतो राजन्नागतः परवीरहा
१४.८१.८तस्मादसि मया पुत्र युद्धार्थं परिचोदितः
मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो
१४.८१.९ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः
नैनं शक्तो हि संग्रामे जेतुं शक्रोऽपि पुत्रक
१४.८१.१०अयं तु मे मणिर्दिव्यः समानीतो विशां पते
मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा
१४.८१.११एतमस्योरसि त्वं तु स्थापयस्व पितुः प्रभो
संजीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम्
१४.८१.१२इत्युक्तः स्थापयामास तस्योरसि मणिं तदा
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत्
१४.८१.१३तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः
सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः
१४.८१.१४तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम्
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः
१४.८१.१५उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः
१४.८१.१६अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः
साधु साध्विति चाकाशे बभूव सुमहान्स्वनः
१४.८१.१७उत्थाय तु महाबाहुः पर्याश्वस्तो धनंजयः
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि
१४.८१.१८ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम्
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनंजयः
१४.८१.१९किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत्
रणाजिरममित्रघ्न यदि जानासि शंस मे
१४.८१.२०जननी च किमर्थं ते रणभूमिमुपागता
नागेन्द्रदुहिता चेयमुलूपी किमिहागता
१४.८१.२१जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम्
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम्
१४.८१.२२तमुवाच ततः पृष्टो मणिपूरपतिस्तदा
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति