१४. अश्वमेधिकपर्व
१४.८२.१अर्जुन उवाच

१४.८२.२किमागमनकृत्यं ते कौरव्यकुलनन्दिनि
मणिपूरपतेर्मातुस्तथैव च रणाजिरे

१४.८२.३कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे
मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि

१४.८२.४कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः

१४.८२.५कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी
चित्राङ्गदा वरारोहा नापराध्यति किंचन

१४.८२.६तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ
न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः
न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता

१४.८२.७श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम्
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये

१४.८२.८त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ
यत्तच्छृणु महाबाहो निखिलेन धनंजय

१४.८२.९महाभारतयुद्धे यत्त्वया शांतनवो नृपः
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता

१४.८२.१०न हि भीष्मस्त्वया वीर युध्यमानो निपातितः
शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया

१४.८२.११तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम्
कर्मणा तेन पापेन पतेथा निरये ध्रुवम्

१४.८२.१२एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि
वसुभिर्वसुधापाल गङ्गया च महामते

१४.८२.१३पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया
गङ्गायास्तीरमागम्य हते शांतनवे नृपे

१४.८२.१४आप्लुत्य देवा वसवः समेत्य च महानदीम्
इदमूचुर्वचो घोरं भागीरथ्या मते तदा

१४.८२.१५एष शांतनवो भीष्मो निहतः सव्यसाचिना
अयुध्यमानः संग्रामे संसक्तोऽन्येन भामिनि

१४.८२.१६तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे
शापेन योजयामेति तथास्त्विति च साब्रवीत्

१४.८२.१७तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया
अभवं स च तच्छ्रुत्वा विषादमगमत्परम्

१४.८२.१८पिता तु मे वसून्गत्वा त्वदर्थं समयाचत
पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन्

१४.८२.१९पुनस्तस्य महाभाग मणिपूरेश्वरो युवा
स एनं रणमध्यस्थं शरैः पातयिता भुवि

१४.८२.२०एवं कृते स नागेन्द्र मुक्तशापो भविष्यति
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः

१४.८२.२१तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः
न हि त्वां देवराजोऽपि समरेषु पराजयेत्

१४.८२.२२आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः
नात्र दोषो मम मतः कथं वा मन्यसे विभो

१४.८२.२३इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम्
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि

१४.८२.२४इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा

१४.८२.२५युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप

१४.८२.२६इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः
उवाच पितरं धीमानिदमस्राविलेक्षणः

१४.८२.२७उपयास्यामि धर्मज्ञ भवतः शासनादहम्
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः

१४.८२.२८मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम्
भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा

१४.८२.२९उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो
पुनरश्वानुगमनं कर्तासि जयतां वर

१४.८२.३०इत्युक्तः स तु पुत्रेण तदा वानरकेतनः
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम्

१४.८२.३१विदितं ते महाबाहो यथा दीक्षां चराम्यहम्
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन

१४.८२.३२यथाकामं प्रयात्येष यज्ञियश्च तुरंगमः
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम

१४.८२.३३स तत्र विधिवत्तेन पूजितः पाकशासनिः
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः