१४.८७.१वैशंपायन उवाच
१४.८७.२तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः
हेतुवादान्बहून्प्राहुः परस्परजिगीषवः
१४.८७.३ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्
देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन
१४.८७.४ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते
शय्यासनविहारांश्च सुबहून्रत्नभूषितान्
१४.८७.५घटान्पात्रीः कटाहानि कलशान्वर्धमानकान्
न हि किंचिदसौवर्णमपश्यंस्तत्र पार्थिवाः
१४.८७.६यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान्
उपकॢप्तान्यथाकालं विधिवद्भूरिवर्चसः
१४.८७.७स्थलजा जलजा ये च पशवः केचन प्रभो
सर्वानेव समानीतांस्तानपश्यन्त ते नृपाः
१४.८७.८गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियोऽपि च
औदकानि च सत्त्वानि श्वापदानि वयांसि च
१४.८७.९जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च
पर्वतानूपवन्यानि भूतानि ददृशुश्च ते
१४.८७.१०एवं प्रमुदितं सर्वं पशुगोधनधान्यतः
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन्
ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत्
१४.८७.११पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम्
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत
१४.८७.१२विननादासकृत्सोऽथ दिवसे दिवसे तदा
एवं स ववृते यज्ञो धर्मराजस्य धीमतः
१४.८७.१३अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाः
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः
१४.८७.१४जम्बूद्वीपो हि सकलो नानाजनपदायुतः
राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ
१४.८७.१५तत्र जातिसहस्राणि पुरुषाणां ततस्ततः
गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ
१४.८७.१६राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः
पर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः
१४.८७.१७विविधान्यन्नपानानि पुरुषा येऽनुयायिनः
तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते