१४. अश्वमेधिकपर्व
१४.८८.१वैशंपायन उवाच

१४.८८.२समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान्
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत्

१४.८८.३उपयाता नरव्याघ्रा य इमे जगदीश्वराः
एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः

१४.८८.४इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना
भीमसेनो महातेजा यमाभ्यां सह भारत

१४.८८.५अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम्
बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः

१४.८८.६युयुधानेन सहितः प्रद्युम्नेन गदेन च
निशठेनाथ साम्बेन तथैव कृतवर्मणा

१४.८८.७तेषामपि परां पूजां चक्रे भीमो महाभुजः
विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः

१४.८८.८युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः
अर्जुनं कथयामास बहुसंग्रामकर्शितम्

१४.८८.९स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम्
धर्मराड्भ्रातरं जिष्णुं समाचष्ट जगत्पतिः

१४.८८.१०आगमद्द्वारकावासी ममाप्तः पुरुषो नृप
योऽद्राक्षीत्पाण्डवश्रेष्ठं बहुसंग्रामकर्शितम्

१४.८८.११समीपे च महाबाहुमाचष्ट च मम प्रभो
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये

१४.८८.१२इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः
दिष्ट्या स कुशली जिष्णुरुपयाति च माधव

१४.८८.१३तव यत्संदिदेशासौ पाण्डवानां बलाग्रणीः
तदाख्यातुमिहेच्छामि भवता यदुनन्दन

१४.८८.१४इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम्

१४.८८.१५इदमाह महाराज पार्थवाक्यं नरः स माम्
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम

१४.८८.१६आगमिष्यन्ति राजानः सर्वतः कौरवान्प्रति
तेषामेकैकशः पूजा कार्येत्येतत्क्षमं हि नः

१४.८८.१७इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद
न तदात्ययिकं हि स्याद्यदर्घ्यानयने भवेत्

१४.८८.१८कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम्
राजद्वेषाद्विनश्येयुर्नेमा राजन्प्रजाः पुनः

१४.८८.१९इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत्
धनंजयस्य नृपते तन्मे निगदतः शृणु

१४.८८.२०उपयास्यति यज्ञं नो मणिपूरपतिर्नृपः
पुत्रो मम महातेजा दयितो बभ्रुवाहनः

१४.८८.२१तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत्
स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो

१४.८८.२२इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः
अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत्