१५. आश्रंवासिकपर्व
१५.१.१जनमेजय उवाच
प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः
कथमासन्महाराजे धृतराष्ट्रे महात्मनि

१५.१.२स हि राजा हतामात्यो हतपुत्रो निराश्रयः
कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी

१५.१.३कियन्तं चैव कालं ते पितरो मम पूर्वकाः
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि

१५.१.४वैशंपायन उवाच

१५.१.५प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन्

१५.१.६धृतराष्ट्रमुपातिष्ठद्विदुरः संजयस्तथा
युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः

१५.१.७पाण्डवाः सर्वकार्याणि संपृच्छन्ति स्म तं नृपम्
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च

१५.१.८सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम्
पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः
ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे

१५.१.९कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः
समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि

१५.१.१०शयनानि महार्हाणि वासांस्याभरणानि च
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत्

१५.१.११तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत
विदुरः संजयश्चैव युयुत्सुश्चैव कौरवः
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम्

१५.१.१२स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान्
स च तस्मिन्महेष्वासः कृपः समभवत्तदा

१५.१.१३व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह
कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम्

१५.१.१४धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत्

१५.१.१५सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरूण्यपि
प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै

१५.१.१६अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा
न च धर्मात्मजो राजा कदाचित्किंचिदब्रवीत्

१५.१.१७विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः
सर्वान्कामान्महातेजाः प्रददावम्बिकासुते

१५.१.१८आरालिकाः सूपकारा रागखाण्डविकास्तथा
उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा

१५.१.१९वासांसि च महार्हाणि माल्यानि विविधानि च
उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः

१५.१.२०मैरेयं मधु मांसानि पानकानि लघूनि च
चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा

१५.१.२१ये चापि पृथिवीपालाः समाजग्मुः समन्ततः
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा

१५.१.२२कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी
उलूपी नागकन्या च देवी चित्राङ्गदा तथा

१५.१.२३धृष्टकेतोश्च भगिनी जरासंधस्य चात्मजा
किंकराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा

१५.१.२४यथा पुत्रवियुक्तोऽयं न किंचिद्दुःखमाप्नुयात्
इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः

१५.१.२५एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत्
सविशेषमवर्तन्त भीममेकं विना तदा

१५.१.२६न हि तत्तस्य वीरस्य हृदयादपसर्पति
धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम्