१५. आश्रंवासिकपर्व
१५.१५.१वैशंपायन उवाच

१५.१५.२एवमुक्तास्तु ते तेन पौरजानपदा जनाः
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन्

१५.१५.३तूष्णींभूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत

१५.१५.४वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया
विलपन्तं बहुविधं कृपणं चैव सत्तमाः

१५.१५.५पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै
वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च

१५.१५.६सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ

१५.१५.७श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते
रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः

१५.१५.८उत्तरीयैः करैश्चापि संछाद्य वदनानि ते
रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत्

१५.१५.९हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम्
दुःखं संधारयन्तः स्म नष्टसंज्ञा इवाभवन्

१५.१५.१०ते विनीय तमायासं कुरुराजवियोगजम्
शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत

१५.१५.११ततः संधाय ते सर्वे वाक्यान्यथ समासतः
एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम्

१५.१५.१२ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः
साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे

१५.१५.१३अनुमान्य महाराजं तत्सदः संप्रभाष्य च
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह

१५.१५.१४राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम्
वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप

१५.१५.१५यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो
नात्र मिथ्या वचः किंचित्सुहृत्त्वं नः परस्परम्

१५.१५.१६न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन
राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत्

१५.१५.१७पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः
न च दुर्योधनः किंचिदयुक्तं कृतवान्नृप

१५.१५.१८यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः
तथा कुरु महाराज स हि नः परमो गुरुः

१५.१५.१९त्यक्ता वयं तु भवता दुःखशोकपरायणाः
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः

१५.१५.२०यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च
भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव

१५.१५.२१भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः

१५.१५.२२न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे
वयमास्म यथा सम्यग्भवतो विदितं तथा

१५.१५.२३तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता
पाल्यमाना धृतिमता सुखं विन्दामहे नृप

१५.१५.२४राजर्षीणां पुराणानां भवतां वंशधारिणाम्
कुरुसंवरणादीनां भरतस्य च धीमतः

१५.१५.२५वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते

१५.१५.२६उषिताः स्म सुखं नित्यं भवता परिपालिताः
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते

१५.१५.२७यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति
भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन