१५.१६.१ब्राह्मण उवाच
१५.१६.२न तद्दुर्योधनकृतं न च तद्भवता कृतम्
न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः
१५.१६.३दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम्
दैवं पुरुषकारेण न शक्यमतिवर्तितुम्
१५.१६.४अक्षौहिण्यो महाराज दशाष्टौ च समागताः
अष्टादशाहेन हता दशभिर्योधपुंगवैः
१५.१६.५भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना
युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह
१५.१६.६चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप
जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः
१५.१६.७अवश्यमेव संग्रामे क्षत्रियेण विशेषतः
कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना
१५.१६.८तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः
पृथिवी निहता सर्वा सहया सरथद्विपा
१५.१६.९न स राजापराध्नोति पुत्रस्तव महामनाः
न भवान्न च ते भृत्या न कर्णो न च सौबलः
१५.१६.१०यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः
सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति
१५.१६.११गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम्
१५.१६.१२लभतां वीरलोकान्स ससहायो नराधिपः
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी
१५.१६.१३प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम्
वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम
१५.१६.१४दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः
१५.१६.१५अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान्
१५.१६.१६ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिव
पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः
१५.१६.१७दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः
१५.१६.१८अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ
ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा
१५.१६.१९विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः
१५.१६.२०मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः
वीर्यवन्तो महात्मानः पौराणां च हिते रताः
१५.१६.२१न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित्
१५.१६.२२भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम्
न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः
१५.१६.२३अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः
१५.१६.२४स राजन्मानसं दुःखमपनीय युधिष्ठिरात्
कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ
१५.१६.२५वैशंपायन उवाच
१५.१६.२६तस्य तद्वचनं धर्म्यमनुबन्धगुणोत्तरम्
साधु साध्विति सर्वः स जनः प्रतिगृहीतवान्
१५.१६.२७धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः
विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः
१५.१६.२८स तैः संपूजितो राजा शिवेनावेक्षितस्तदा
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ
१५.१६.२९ततो विवेश भुवनं गान्धार्या सहितो नृपः
व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत्