१५.१७.१वैशंपायन उवाच
१५.१७.२व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः
विदुरं प्रेषयामास युधिष्ठिरनिवेशनम्
१५.१७.३स गत्वा राजवचनादुवाचाच्युतमीश्वरम्
युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः
१५.१७.४धृतराष्ट्रो महाराज वनवासाय दीक्षितः
गमिष्यति वनं राजन्कार्त्तिकीमागतामिमाम्
१५.१७.५स त्वा कुरुकुलश्रेष्ठ किंचिदर्थमभीप्सति
श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः
१५.१७.६द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः
पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः
यदि चाभ्यनुजानीषे सैन्धवापसदस्य च
१५.१७.७एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः
हृष्टः संपूजयामास गुडाकेशश्च पाण्डवः
१५.१७.८न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा
विदुरस्य महातेजा दुर्योधनकृतं स्मरन्
१५.१७.९अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः
किरीटी किंचिदानम्य भीमं वचनमब्रवीत्
१५.१७.१०भीम राजा पिता वृद्धो वनवासाय दीक्षितः
दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम्
१५.१७.११भवता निर्जितं वित्तं दातुमिच्छति कौरवः
भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि
१५.१७.१२दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति
याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम्
१५.१७.१३योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः
परैर्विनिहतापत्यो वनं गन्तुमभीप्सति
१५.१७.१४मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम्
अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज
१५.१७.१५राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम्
अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ
एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत्
१५.१७.१६भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा
वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन
१५.१७.१७सोमदत्तस्य नृपतेर्भूरिश्रवस एव च
बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः
१५.१७.१८अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति
श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः
१५.१७.१९इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः
कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः
यैरियं पृथिवी सर्वा घातिता कुलपांसनैः
१५.१७.२०कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम्
अज्ञातवासगमनं द्रौपदीशोकवर्धनम्
क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा
१५.१७.२१कृष्णाजिनोपसंवीतो हृताभरणभूषणः
सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान्
क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत्
१५.१७.२२यत्र त्रयोदश समा वने वन्येन जीवसि
न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते
१५.१७.२३किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः
दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत
१५.१७.२४तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः
उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन्